2023-09-01 05:57:30 by Bharadwajraki
This page has been fully proofread twice.
रङ्गैरिव लावण्यसागरस्य, कटाक्षैरेव[^१] जगदखिलं कन्दर्पनिदेशवशमापादयन्तीम्, ताटङ्कमरीचिवीचिभिस्तटित्पुञ्जमिव युगपदुद्गिरन्तीम्, आदिमरसाभिवर्षणाय निरन्तरपरिवहदाननसौन्दर्यनिष्यन्देनेव नासामणिना[^२] प्रतिबिम्बितेनेव तस्य पाटलाधरपर्यस्तेन मन्दस्मितेन च मदयन्तीमिव मनांसि महायोगिनामपि, नवनवोपचीयमाननखम्पचस्तनभारपरिणाहवशात्परिश्लथयन्तीमसकृदमपि वेणीलतां कञ्चुकस्य, कन्दुका-
[commentary]
द्भिरागच्छद्भिरित्यर्थः । शनैः मुखमण्डलमाक्रामद्भिरव स्थितैः । वैपुल्यादिति भावः । मदनस्य सञ्जीवनैरुज्जीवकैः । शृङ्गाररसस्य सम्प्रदायगुरुभिः पारम्पर्यप्राप्तगुरुभिः । शृङ्गाररसस्य गुरव इव तदुद्धर्तृत्वादिति भावः । विभ्रमाणां हावभावानामित्यर्थः । 'स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा । हेला लीलेत्यमी हावाः' इत्यमरः । विलासभवनैः लीलासदनैरिव स्थितैः । तारुण्यं यौवनं तदेव चन्द्रिका तयोल्लासितैः उल्लासं प्रापितैः लावण्यसागरः सौन्दर्यसमुद्रः तस्य तरङ्गैरिव स्थितैः । कटाक्षैः नेत्रान्तैरेव । 'कटाक्षो नेत्रयोरन्तः' इत्यमरः । अखिलं जगत् कन्दर्पदेववशं मदनमहाराजाधीनमापादयन्तीं प्रापयन्तीमित्यर्थः । आदिमरसः शृङ्गारः तस्य अभिवर्षणाय तटितां विद्युतां पुञ्जं राशिमिव स्थितम् । ताटङ्कयोः कर्णाभरणयोर्मरीचीनां पुञ्जं राशिं, युगपत् एकदा उत्किरन्तीं परितः किरन्तीमिव स्थिताम् । ताटङ्कमरीचिवीचिभिस्तटित्पुञ्जमिति द्राघीयानेव पाठः । कर्णाभरणकान्तिपरम्पराभिः तटित्पुञ्जं युगपत्किरन्तीमिव स्थितामित्यन्वयो बोध्यः । निरन्तरमनवकाशं यथा तथा परिवहत् प्रवहत्, यदाननसौन्दर्यं तस्य निष्यन्देन बिन्दुनेव स्थितेन नासामणिना नासामौक्तिकेन तस्य नासामणेरित्यर्थः । प्रतिबिम्बितेन प्रतिबिम्बितेनेव स्थितेन तस्य पाटलाधरे शोणाधरे पर्याप्तेन व्याप्तेन मन्दस्मितेन महायोगिनामपि मनांसि मदयन्तीमिव स्थिताम् ।
नवनवं नूतनं यथा तथा उपचीयमानः वर्धमानः नखम्पचश्च यः स्तनयोः भारः अतिशयः तस्य परिणाहवशात् विशालत्वादित्यर्थः । कञ्चुकस्य कूर्पासस्य वेणीलतां लतासदृशकञ्चुकमर्यादादेशमित्यर्थः । 'वेणी सेतुप्रवाहयोः' इति हेमचन्द्रः । अत्र कोशवाक्ये सेतुशब्दः मर्यादादेशवाचीति तद्व्याख्या-
[^१] कटाक्षवर्णनमपि सौन्दर्यलहर्यां स्फुटं कृतमाचार्यभगवत्पादःदैः वेदितव्यम् ।
[^२] नासामणिं मन्दस्मितं कन्दुकलीलां यौवनं वयः इत्यादिकमुत्प्रेक्षामुखेन वर्णयति ॥

[^१] कटाक्षवर्णनमपि सौन्दर्यलहर्यां स्फुटं कृतमाचार्यभगवत्पा