This page has been fully proofread once and needs a second look.

पञ्चमांश्वांसः
 
३७१
 
रङ्गैखिरिव लावण्यसागरस्य, कटाक्षैरेव[‌^१] जगदखिलं कन्दर्पनिदेश वशमा-
पादयन्तीम्, ताटङ्क मरीचिवीचिभिस्तटित्पुञ्जमिव युगपदुद्गिरन्तीम्,
आदिमरसाभिवर्षणाय निरन्तरपरिवहदान नसौन्दर्य निष्यन्देनेव नासाम-
णिना[^२] प्रतिबिम्बितेनेव तस्य पाटलाधरपर्यस्तेन मन्दस्मितेन च मदय-
न्तीमिवः मनांसि महायोगिनामपि, नवनवोपचीयमान नखम्पचस्तनभार-
परिणाहवशात्परिश्लथयन्तीमसकुकृदमपि वेणीलतां कञ्चुकस्य, कन्दुका-

 
[commentary]
 
द्भिरागच्छद्भिरित्यर्थः । शनैः मुखमण्डलमाक्रामद्भिरव स्थितैः । वैपुल्यादिति
भावः । मंदनस्यःमदनस्य सञ्जीवनैरुज्जीवकैः । शृङ्गाररसस्य सम्प्रदायगुरुभिः
पारम्पर्यप्राप्तगुरुभिः । शृङ्गाररसस्य गुरव इव तदुद्धर्तृत्वादिति भावः ।
विश्भ्रमाणां हावभावानामित्यर्थः ।' 'स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा ।
हेला.. लीलेत्यमी हावाः' इत्यमरः । विलासभवनैः लीलासदनैरिव स्थितैः ।
तारुण्यं यौवनं तदेव चन्द्रिका तयोल्लासितैः उल्लासं प्रापितैः लावण्यसागर:रः सौन्दर्य -
समुद्रः तस्य तरङ्गैरिव स्थितैः । कटाक्षैः नेत्रान्तैरेव । 'कटाक्षो नेत्रयोरन्त: तः'
इत्यमरः । अखिलं जगत्-कन्दर्प कन्दर्पदेववशं मदनमहाराजाधीनमापादयन्तीं प्रापयन्ती -
मित्यर्थः । आदिमरसः शृङ्गारः तस्य अभिवर्षणाय तटितां विद्युतां पुञ्जं राशि-
मिव स्थितम् । ताटङ्कयोः कर्णाभरणयोर्मरीचीनां पुञ्जं राशिशिं, युगपत् एकदा
उत्रिकिरन्तीं परितः किरन्तींतीमिव स्थिताम् । ताटङ्कमरीचिवीचिभिस्तटित्पुञ्जमिति
द्रांराघीया नेव- पाठः । कर्णाभरणकान्तिपरम्पराभिः तटित्पुञ्जं युगपत्किरन्तीमिव
स्थितामित्यन्वयो बोध्यः । निरन्तरमनवकाशं यथा तथा परिवहत् प्रवहत्, यदानन-
सौन्दर्यं तस्य निष्यन्देन बिन्दुनेव स्थितेन नासामणिना नासामौक्तिकेन तस्य नासा-
मणेरित्यर्थः । प्रतिबिम्बितेन प्रतिबिम्बितेनेव स्थितेन तस्य पाटलारे शोणाधरे
पर्याप्तेन व्याप्तेन मन्दस्मितेन महायोगिनामपि मनांसि मदयन्तीमिव स्थिताम् ।

नवनवं नूतनं यथा तथा उपचीयमानः वर्धमानः नखम्पचश्च यः स्तनयोः
भार:रः अतिशयः तस्य परिणाहवशात् विशालत्वादित्यर्थः । कन्ञ्चुकस्य कूर्पा-
सस्य वेणीलतां लतासदृश कञ्चुकमर्यादादेशमित्यर्थः । 'वेणी सेतुप्रवाहयो: योः'
इति हेमचन्द्रः । अत्र कोशवाक्ये सेतुशब्द:दः मर्यादा देशवाचीति तद्व्याख्या -
 
(
 

 
[^१]
कटाक्षवर्णनमपि सौन्दर्यलहर्यायां स्फुटं कृतमाचार्य भगवत्पादः वेदितव्यम् ।
11.2019-

 
[^२]
नासोमणिसामणिं मन्दस्मितं कन्दुकलीलां यौवनं यः इत्यादिकमुत्प्रेक्षामुखेन वर्णयति ॥