This page has not been fully proofread.

पञ्चमांश्वांसः
 
३७१
 
रङ्गैखि लावण्यसागरस्य, कटाक्षैरेव जगदखिलं कन्दर्पनिदेश वशमा-
पादयन्तीम्, ताटङ्क मरीचिवीचिभिस्तटित्पुञ्जमिव युगपदुद्गिरन्तीम्,
आदिमरसाभिवर्षणाय निरन्तरपरिवहदान नसौन्दर्य निष्यन्देनेव नासाम-
णिना प्रतिबिम्बितेनेव तस्य पाटलाधरपर्यस्तेन मन्दस्मितेन च मदय-
न्तीमिवः मनांसि महायोगिनामपि, नवनवोपचीयमान नखम्पचस्तनभार-
परिणाहवशात्परिश्लथयन्तीमसकुदमपि वेणीलतां कञ्चुकस्य, कन्दुका-
द्भिरागच्छद्भिरित्यर्थः । शनैः मुखमण्डलमाक्रामद्भिरव स्थितैः । वैपुल्यादिति
भावः । मंदनस्यः सञ्जीवनैरुज्जीवकैः । शृङ्गाररसस्य सम्प्रदायगुरुभिः
पारम्पर्यप्राप्तगुरुभिः । शृङ्गाररसस्य गुरव इव तदुद्धर्तृत्वादिति भावः ।
विश्रमाणां हावभावानामित्यर्थः ।' 'स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा ।
हेला.. लीलेत्यमी हावाः' इत्यमरः । विलासभवनैः लीलासदनैरिव स्थितैः ।
तारुण्यं यौवनं तदेव चन्द्रिका तयोल्लासितैः उल्लासं प्रापितैः लावण्यसागर: सौन्दर्य -
समुद्रतस्य तरङ्गैरिव स्थितैः । कटाक्षैः नेत्रान्तैरेव । 'कटाक्षो नेत्रयोरन्त: '
इत्यमरः । अखिलं जगत्-कन्दर्प देववश मदनमहाराजाधीनमापादयन्तीं प्रापयन्ती -
मित्यर्थः । आदिमरसः शृङ्गारः तस्य अभिवर्षणाय तटितां विद्युतां पुञ्ज राशि-
मिव स्थितम् । ताटङ्कयोः कर्णाभरणयोर्मरीचीनां पुजं राशि, युगपत् एकदा
उत्रिन्तीं परितः किरन्तींमिव स्थिताम् । ताटङ्कमरीचिवीचिभिस्तटित्पुञ्जमिति
द्रांघीया नेव-पाठः । कर्णाभरणकान्तिपरम्पराभिः तटित्पु युगपत्किरन्तीमिव
स्थितामित्यन्वयो बोध्यः। निरन्तरमनवकाशं यथा तथा परिवहत् प्रवहत्, यदानन-
सौन्दर्यं तस्य निष्यन्देन बिन्दुनेव स्थितेन नासामणिना नासामौक्तिकेन तस्य नासा-
मणेरित्यर्थः । प्रतिबिम्बितेन प्रतिबिम्बितेनेव स्थितेन तस्य पाटलाघरे शोणाधरे
पर्याप्तेन व्याप्तेन मन्दस्मितेन महायोगिनामपि मनांसि मदयन्तीमिव स्थिताम् ।
नवनवं नूतनं यथा तथा उपचीयमानः वर्धमानः नखम्पचश्च यः स्तनयोः
भार: अतिशयः तस्य परिणाहवशात् विशालत्वादित्यर्थः । कन्चुकस्य कूर्पा-
सस्य वेणीलतां लतासदृश कञ्चुकमर्यादादेशमित्यर्थः । 'वेणी सेतुप्रवाहयो: '
इति हेमचन्द्रः । अत्र कोशवाक्ये सेतुशब्द: मर्यादा देशवाचीति तद्व्याख्या -
 
(
 
कटाक्षवर्णनमपि सौन्दर्यलहर्या स्फुटं कृतमाचार्य भगवत्पादः वेदितव्यम् ।
11.2019- नासोमणि मन्दस्मितं कन्दुकलीलां यौवनं बयः इत्यादिकमुत्प्रेक्षामुखेन वर्णयति ॥