2023-08-30 10:36:14 by Bharadwajraki
This page has been fully proofread twice.
पक्षयोः[^१] नवनवोन्मिषद्विवादपरिहारकेकसीमाविभागवीथिकयेव सीमन्तरेखया पद्मरागसिन्दूरपाटलीकृतया सङ्घटयन्तीमिव सान्ध्यरागसम्पदम् किङ्करीकृतभुवनमण्डलेन किञ्चिद्घटितेन भ्रूभङ्गेन परिहरन्तीमिव प्रामादिकं भङ्गमनङ्गवीरस्य, अनासेवितमधुरैरिव अमृतैः, अनालिप्तशीतलैरिव कर्पूरपरागैः, अवतंसोत्पलमिव हस्तग्राहं ग्रहीतुमनुधावद्भिरनुक्षणं कर्णपदम्, आक्रामद्भिरिव शनैर्मुखमण्डलम्, सञ्जीवनैर्मदनस्य, सम्प्रदायगुरुभिर्शृङ्गारस्य, विलासभवनैर्विभ्रमाणाम्, तारुण्यचन्द्रिकोल्लासितैस्त-
[commentary]
शशाङ्ककला तदनुकारीणि तद्वत्स्थितानीत्यर्थः । यानि केतकीपुष्पाणां पत्राणि तैः चित्रितमलङ्कृतं वेणीपदं विशदकचसंहतिर्यस्यास्सा तथाभूताम् । 'वेणी प्रवेणी शीर्षण्यशिरस्थौ विशदे कचे' इत्यमरः । नभोनभस्थरजन्योः श्रावणभाद्रपदकृष्णपक्षरात्र्योरिव स्थितयोरित्यर्थः । अतिनैल्यादिति भावः । 'नभाः श्रावणिकश्च सः' 'स्युर्नभस्यः प्रौष्ठपदभाद्रभाद्रपदास्समाः' इति च अमरः । नभश्च नभस्यश्च
वार्षिकावृतू' इति श्रुतेश्च । केशपक्षौ केशकलापौ । 'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' इत्यमरः । तयोर्नवनवं प्रतिक्षणं उन्मिषन् यो विवादः कलहः तस्य परिहारिका निवारिका सीम अवधिरूपा या विभागवीथिका तयेव स्थितया । पद्मरागः शोणरत्नम् । 'शोणरत्नं लोहितकं पद्मरागोऽथ मौक्तिकम्' इत्यमरः । स एव सिन्दूरं ध्रियमाणचूर्णं तेन, पाटलीकृता तथाभूतया सीमन्तरेखया । सान्ध्यरागः सन्ध्यारागः तस्य सम्पदतिशयः तां स्पर्धयन्तीमभिभवितुमिच्छन्तीमिव स्थिताम् । किङ्करीभूतं भुवनानां लोकानां मण्डलं यस्य स तथाभूतेन । किङ्करीकृतभुवनेत्यपि पाठः । किञ्चिदीषदुद्घटितेन सङ्घटितेन भ्रूभङ्गेन । 'ऊर्ध्वे दृग्भ्यां भ्रुवोऽस्त्रियाम्' इत्यमरः । अनङ्गवीरस्य मदनस्य प्रामादिकं प्रमादप्राप्तं भङ्गं पराभवं परिहरन्तीमिव स्थिताम् । अनङ्गसेवितानि । अनासेवितेति सुगमः पाठः । इतरासम्भुक्तानि च तानि मधुराणि चेति कर्मधारयः । तथाभूतैः अमृतैरिव स्थितैः । अनालिप्ताः इतरासेविताश्च ते शीतलाश्च तथाभूतैः कर्पूरस्य परागैरिव स्थितैः । अवतंसं कर्णपूरभूतं यदुत्पलं नीलोत्पलं तत् हस्तग्राहं ग्रहीतुं हस्ते ग्रहीतुमित्यर्थः । कर्णपथं श्रोत्रमार्गं, अनुक्षणं प्रतिक्षणम्, अनुधाव-
[^१] श्रावणभाद्रपदकृष्णपक्षरात्रयोः वर्षाकालीनयोः मेघावृतयोरिव कृष्णस्निग्धरूपयोः केशभागयोः दक्षिणोत्तरयोरित्यर्थः ।