This page has been fully proofread once and needs a second look.

३७०
 
नीलकण्ठ विजये सव्याख्याने
 
-
पक्षयोः नवनवोन्मिद्विवादपरिहार केसी मा विभागवीथिकयेव सीमन्त-
रेखया पद्मरागसिन्दूरपाटलीकृतया सङ्घयन्तीमिव सान्ध्यरागसम्पदम्
किङ्करीकृतभुवनमण्डेलेन किञ्चिद्घटितेन भ्रूभङ्गेन परिहरन्तीमिव प्रामा-
दिकं भङ्गमनङ्गवीरस्य, अनासेवितमधुरैखिरिव अमृतैः, अनालिप्तशीतलै-
रिख
रिव कर्पूरपरागैः, अवतंसोत्पलमिव हस्तग्राहं ग्रहीतु मनुधावद्भिरनुक्षणं
कर्णपदम्, आक्रामद्भिरिव शनैर्मुखमण्डलम्, सञ्जीवनैर्मदनस्य, सम्प्रदा-
यगुरुभिर्शृङ्गारस्य, विलासभवनैर्विभ्रमाणाम्, तारुण्यचन्द्रिकोल्लासितैस्त-
"
 

 
[commentary]
 
शशाङ्ककला तदनुकारीणि तद्वत्स्थितानीत्यर्थः । यानि केतकीपुष्पाणां पत्राणि
तैः चित्रितमलङ्कृतं वेणीपदं विशदकचसंह तिर्यस्यास्सा तथाभूताम् । 'वेणी प्रवेणी
शीर्षण्यशिरस्थौ विशदे कचे' इत्यमरः । नभोनभस्थरजन्योः श्रावणभाद्रपद -
कृष्णपक्षरात्र्योस्विरिव स्थितयोरित्यर्थ:थः । अतिनैल्यादिति भावः । 'नभाः श्रावणि-
कश्च स: सः' 'स्युर्नभस्यः प्रौष्ठपदभाद्रभाद्रपदास्समाः' इति च अमरः । नश्च नभस्यश्च

वार्षिकावृतू' इति श्रुतेश्च । केशपक्षौ केशकलापौ। 'पाशः पक्षश्च हस्तश्च कला-
पार्था:थाः कचात्परे' इत्यमरः । तयोर्नवनवं प्रतिक्षणं उत्न्मिषन् यो विवाद:दः कलह:
हः तस्य परिहारिका निवारिका सीम अवधिरूपा या विभागवीथिका तयेव स्थितया ।
पद्मराग:गः शोणरलम्त्नम् । 'शोणरत्नं लोहितकं पद्मरागोऽथ मौक्तिकम्' इत्यमरः ।
स एव सिन्दूरं त्ध्रियमाणचूर्णं तेन, पाटलीकृता तथाभूतया सीमन्तरेखया ।
सान्ध्यराग:गः सन्ध्याराग:गः तस्य सम्पदतिशयः तां स्पर्धयन्तीमभिभवितुमिच्छन्ती-
मिव स्थिताम् । किङ्करीभूतं भुवनानां लोकानां मण्डलं यस्य स तथाभूतेन ।
किङ्करीकृतभुवनेत्यपि पाठः । किञ्चिदीषदुद्घटितेन सङ्घटितेन भ्रूभङ्गेन । 'ऊर्ध्वे
दृग्भ्यां भ्रुवोऽस्त्रियाम्' इत्यमरः । अनङ्गवीरस्य मदनस्य प्रामादिकं प्रमादप्राप्तं
भङ्गं पराभवं परिहरन्ती मिव स्थिताम् । अनङ्ग सेवितानि । अनासेवितेति सुगम:
मः पाठः । इतरासम्भुक्तानि च तानि मधुराणि चेति कर्मधारयः । तथाभूतैः
अमृतैरिव स्थितैः । अनालिप्ताः इतरासेविताश्च ते शीतलाश्च तथाभूतैः कर्पूरस्य
परागैरिव स्थितैः। अवत । अवतंसं कर्णपूरभूतं यदुत्पलं नीलोत्पलं तत् हस्तग्राहं
ग्रहीतुं हस्ते ग्रहीतुमित्यर्थः । कर्णपथं श्रोत्रमार्गं, अनुक्षणं प्रतिक्षणम्, अनुधाव-
***
 
1. •

 
[‍^१]
श्रावण माभाद्रपद कृष्णपक्षरात्रेंयोः वर्षाकालीनयोः मेघावृतयोरिव कृष्णस्निग्ध-
रूपयोः केशभागयोः दक्षिणोत्तरयोरित्यर्थः ।