This page has been fully proofread once and needs a second look.

शयितकेकिकेकानिनादमनोरमे हरिमणिहरितपरिसरधरणिनिपतदविरळवकुळमुकुळपरिमळ- परिमिळदळिकुलगरुदुपचितमरुदुपहृतकुसुमजरजोराजिनिर्मले मूले वकुलस्य, निटिलतटनिर्माणकौतुकाविष्टनीरजसम्भवापास्तशशाङ्कशकलानुकारिकेतकीपत्रचित्रितवेणीपदाम्, नभोनभस्यरजन्योः केश-
 
[commentary]
 
हिमवालुकाः आर्द्रकर्पूराणि तासां परागाः रेणवः । 'घनसारश्चन्द्रसंज्ञस्सिताभ्रो हिमवालुका' इत्यमरः । 'परागः कौसुमं रजः' इति च । त एव वालुकाः सैकतविशेषास्तेषामनुसारः अनुसरणं तेन जनितं उत्पादितं यज्जडिमं शीतलत्वं तेन हिमाः शीतळाः याः कुल्याः कृत्रिमसरितः । 'तुषारश्शीतलश्शीतो हिमस्सप्तान्यलिङ्गकाः' 'कुल्याल्पा कृत्रिमा सरित्' इति च अमरः । तासां निपातः निपतनं तेन शीतळितानि शीतळीकृतानि आलवालानां वृक्षाधःपरिष्कृतभूमीनां यानि मूलानि मूलदेशा इत्यर्थः । 'स्यादालवालमावालम्' इत्यमरः । तेषु सुखेन शयिताः निद्राळवः । 'स्वप्नक्छ्याळुर्निद्रालुर्निद्राणशयितौ समौ' इत्यमरः । ये केकिनः मयूराः तेषां केकेति ये निनादाः ध्वनयः । 'केका वाणी मयूरस्य' इत्यमरः । तैः मनोरमं मनोहरं तथाभूते। हरिमणयः इन्द्रनीलोपलाः हरिमणिस्वरूपं रत्नशास्त्रे चोक्तम् 'विश्वरूपवधप्राप्तदोषशान्त्यै पुरन्दरः । अश्वमेधीं चकाराथ सत्समाप्त्या तदङ्गजम् चाक्षुषञ्च मलं यत्र विमुक्तं यत्र केवलम् । इन्द्रनीला इति ख्याता मणयस्सम्भवन्ति हि ॥' इति । तैर्मणिभिर्हरिताः हरितवर्णाः याः परिसरधरण्यः समीपभूमयः तासु निपतन्तः ये वकुळवृक्षाणां मुकुळाः कुड्मलानि । 'स्याद्गुच्छकस्तु स्तबकः कुड्मलो मुकुळोऽस्त्रियाम्' इत्यमरः । तेषां यः परिमळः विमर्दजन्यसौरभ्यविशेषः । 'विमर्दोत्थे परिमळो गन्धे जनमनोहरे' इत्यमरः । तेन परिमिळन्तः पुञ्जीभवन्तः ये अळयः भ्रमराः तेषां कुलस्य समूहस्य याः गरुतः पक्षाः । 'गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम्' इत्यमरः । तैरुपचितः अभिवर्धितः यो मरुद्वायुः तेन उपहृतानि समर्पितानि यानि कुसुमानि तेषाम् । कुसुमजरजोराजीति पाठे कुसुमजानि यानि रजांसि तेषामित्यन्वयः । यानि रजांसि पुष्पपरागाः तेषां राजयः पङ्क्तयः ताभिः निर्मलं तथाभूते कस्यचिद्वकुळस्य वकुलवृक्षस्य मूले मूलप्रदेशे कन्यामुपलेभिरे इत्यनेनान्वयः । सा कीदृशीत्याकाङ्क्षायामाह -- निटिलतटं फालदेशः तस्य निर्माणविषये यत्कौतुकं कुतूहलं तेन आविष्टः आक्रान्तः यः नीरजसम्भवो ब्रह्मा तेन अपास्ता अवमत्य उत्सृष्टेत्यर्थः । या