This page has not been fully proofread.

पञ्चमाश्वासः
 
३६९
 
'कुळमुकुळ
 
-
 
शयितकेकिकेका निनादमनोरमे हरिमणिहरितपरिसरधरणिनिपतदविरळव-
परिमळपरिमिळदळिकुलगरुदुपचितमरुदुपहृतकुसुमजरजोराजि -
-निर्मले मूले वकुलस्य, निटिलतट निर्माणकौतुकाविष्टनीरज सम्भवापास्तश-
शाङ्क शकलानुकारिकेतकीपत्रचित्रितवेणीपदाम्, नभोनभस्यरजन्योः केश-
हिमवालुका: आकर्पूराणि तासां परागा: रेणव: । 'घनसारश्चन्द्रसंज्ञस्सिताओ
हिमवालुका' इत्यमरः । 'पराग: कौसुमं रजः' इति च । त एव वालुका: सैकत-
विशेषास्तेषामनुसारः अनुसरणं तेन जनित उत्पादितं यज्जडिम शीतलत्वं तेन
हिमाः शीतळाः याः कुल्या: कृत्रिमसरितः । 'तुषारश्शीतलश्शीतो हिमस्सप्तान्य-
'लिङ्गका:' 'कुल्याल्पा कृत्रिमा सरित्' इति च अमरः । तासां निपातः निपतनं तेन
शीतळितानि शीतळीकृतानि आलवालानां वृक्षाघ: परिष्कृतभूमीनां यानि मूलानि
मूलदेशा इत्यर्थः । 'स्यादालवालमावालम्' इत्यमरः । तेषु सुखेन शयिताः निद्रा-
ळव: । 'स्वप्रक्छ्याळुनिंद्रालुनिंद्राणशयितौ समौ' इत्यमरः । ये केकिनः मयूराः
तेषां केकेति ये निनादाः ध्वनय: । 'केका वाणी मयूरस्य' इत्यमरः । तैः मनोरमं
मनोहरं तथाभूते। हरिमणयः इन्द्रनीलोपलाः हरिमणिस्वरूपं रत्नशास्त्रे चोक्तम्
'विश्वरूप वधप्राप्तदोषशान्त्यै पुरन्दरः । अश्वमेधीं चकाराथ सत्समाप्त्या तदङ्गजम्-
चाक्षुषञ्च मलं यत्र विमुक्तं यत्र केवलम् । इन्द्रनीला इति ख्याता मणयस्सम्भ-
वन्ति हि ॥" इति । तैर्मणिभिर्हरिताः हरितवर्णाः याः परिसरधरण्यः समीपभूमयः
तासु निपतन्तः ये वकुळवृक्षाणां मुकुळा: कुड्मलानि । 'स्याद्गुच्छकस्तु स्तबकः
कुडमेलो मुकुळोऽस्त्रियाम्' इत्यमरः । तेषां यः परिमळ: विमर्दजन्यसौरभ्यविशेषः ।
'विमर्दोत्थे परिमळो गन्धे जनमनोहरे' इत्यमरः । तेन परिमिळन्तः पुञ्जी-
भवन्तः ये अळयः भ्रमराः तेषां कुलस्य समूहस्य याः गरुतः पक्षाः ।
'गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम्' इत्यमरः । तैरुपचितः अभिवर्धितः यो
मरुद्वायुः तेन उपहृतानि समर्पितानि यानि कुसुमानि तेषाम् । कुसुमजरजोराजीति
पाठे कुसुमजानि यानि रजांसि तेषामित्यन्वयः । यानि रजांसि पुष्पपरागाः
तेषां राजय: पङ्क्तय: ताभिः निर्मलं तथाभूते कस्यचिद्रकुळस्य बकुलवृक्षस्य
मूले मूलप्रदेशे कन्यामुपलेभिरे इत्यनेनान्वयः । सा कीदृशीत्या काङ्क्षायामाह -
निटिलतटं फालदेशः तस्य निर्माणविषये यत्कौतुकं कुतूहलं तेन आविष्टः
आक्रान्तः यः नीरजसम्भवो ब्रह्मा तेन अप्रास्ता अवमत्य उत्सृष्टेत्यर्थः । या
N -- 47
 
-