2023-08-30 09:47:33 by Bharadwajraki
This page has been fully proofread twice.
तत्र च ।
मन्दस्पन्दरसालसालशिखरक्रीडत्पिक[^१]श्रेणिका-
कण्ठोदश्चितपञ्चमध्वनिचमत्कारप्रकारस्पृशः ।
कन्दर्पाहवखिन्नकिन्नरवधूकण्ठोन्मिषत्काकली -
काकुव्याकुलिता गिरो दिविषदां जीवातवो जज्ञिरे ॥ ३९ ॥
उपवने च तस्मिन्नुपान्तनिरूढकदळीगर्भकन्दळितहिमवालुकापरागवालुकानुरागजनितजडिम- हिमकुल्यानिपातशीतळितालवालमूलसुख-
[commentary]
किङ्करीभूताः दासतां प्राप्ताः ये युवलोकाः युवजनाः तेषां यानि लोचनानि तेषामानन्दनः हर्षकरः तथाभूतम् । किञ्च भुवि निवेशितं नन्दनं इन्द्रवनमिव स्थितं आराममुपवनं अद्राक्षुः ददृशुरित्यर्थः ॥ तत्र चेति ॥ तत्र आरामे मन्दः स्पन्दः मन्दचलनं यस्य स तथाभूतो यः रसालश्चूतस्सालसंज्ञिकः सालवृक्षः । 'अनोकहः कुटस्सालः' इत्यमरः । तस्य यच्छिखरं तस्मिन् क्रीडन्त्यः विहरन्त्यः याः पिकानां कोकिलानां श्रेण्यः पङ्क्तयः तासां कण्ठैरुदञ्चिताः समुत्पन्नाः ये पञ्चमध्वनयः । 'पिकः कूजति पञ्चमम्' इति कोशाभिधानात् । तेषां ये चमत्काराः चमत्कृतयः विच्छित्त्यपरपर्यायाः तैर्यः प्रकारः सादृश्यमित्यर्थः । तत्स्पृष्टवन्तः तत्स्पृशः कोकिलध्वनिवन्मधुरा इति भावः । कन्दर्पाहवः मदनयुद्धं रतापरपर्यायं तस्मिन् विषये खिन्नाः खेदभाजः याः किन्नरवध्वस्तासां कण्ठेभ्यः उन्मिषन्त्यः उद्भवन्त्यः याः काकल्यः मधुरास्फुटध्वनयः याश्च काकवः शोकभीत्यादिप्रयुक्तविकारध्वनयः । 'काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे' 'काकुः स्त्रियां विकारो यश्शोकभीत्यादिभिर्ध्वनेः' इति च अमरः । उभयीभिस्ताभिः व्याकुलिताः रवाः ध्वनयः दिविषदां देवासुराणां जीवातवः उज्जीविकाः । 'जीवातुर्जीवनौषधम्' इत्यमरः । जज्ञिरे सञ्जाता इत्यर्थः । परदेवतां मोहिनीरूपधारिणीं वर्णयितुमारभते ॥ उपेति ॥ तस्मिन्नुपवने आरामे 'आरामः स्यादुपवनम्' इत्यमरः । उपान्तस्समीपदेशः तस्मिन् निरूढाः याः कदळ्यः रम्भासंज्ञिकसप्तवर्णवृक्षाः तासां गर्भाः कुक्षिदेशाः । 'कुक्षिभ्रूणार्भका गर्भाः' इत्यमरः । तेषु कन्दळितास्समुत्पन्नाः
[^१] "पिकः कूजति पञ्चमम्" इति षड्ज, ऋषभ, गान्धार, पञ्चम, धैवत, निषादाख्यस्वरपञ्चकस्वरूपादिकं चान्यत्र विस्तृतम् ॥
मन्दस्पन्दरसालसालशिखरक्रीडत्पिक[^१]श्रेणिका-
कण्ठोदश्चितपञ्चमध्वनिचमत्कारप्रकारस्पृशः ।
कन्दर्पाहवखिन्नकिन्नरवधूकण्ठोन्मिषत्काकली