This page has not been fully proofread.

३६८
 
नीलकण्ठ विजये सव्याख्याने
 
मन्दस्पन्दरसालसालशिखरक्रीडत्यिक' श्रेणिका -
कण्ठोदश्चितपञ्चमध्वनिचमत्कारप्रकारस्पृशः ।
खिन्नकिन्नरवधूकण्ठोन्मिपत्काकली -
 
कन्दर्पाहव
 
काकुव्याकुलिता गिरो दिविषदां जीवातवो जज्ञिरे ॥३९
• उपवने च तस्मिन्नुपान्तनिरूढकदळीगर्भकन्दळितहिमवालुकाप-
रागवालुकानुरागजनितजङिमहिमकुल्यानिपातशीतळितालवालमूलसुख-
किङ्करीभूताः दासतां प्राप्ताः ये युवलोकाः युवजनाः तेषां यानि लोचनानि तेषामा-
नन्दनः हर्षकर तथाभूतम् । किञ्च भुवि निवेशित नन्दनं इन्द्रवनमिव स्थितं
आराममुपवनं अद्राक्षुः दहशुरित्यर्थः ॥ तत्रचेति ॥ तत्र आरामे मन्दः स्पन्दः
मन्दचलनं यस्य स तथाभूतो यः रसालश्चूतस्सालसंज्ञिकः सालवृक्षः । 'अनोकहः
कुटस्साल:' इत्यमरः । तस्य यच्छिखरं तस्मिन् क्रीडन्त्यः विहरन्त्यः याः पिकानां
कोकिलानां श्रेण्यः पङ्क्तयः तासां कण्ठैरुदञ्चिताः समुत्पन्नाः ये पञ्चमध्वनयः ।
'पिकः कूजति पञ्चमम्' इति कोशाभिधानात् । तेषां ये चमत्काराः चमत्कृतयः
विच्छिन्त्यपरपर्यायाः तैर्यः प्रकार: सादृश्यमित्यर्थः । तत्स्पृष्टवन्तः तत्स्पृशः कोकिल-
ध्वनिवन्मधुरा इति भावः । कन्दर्पाहव: मदनयुद्धं रतापरपर्याय तस्मिन् विषये
खिन्ना: खेदभाज: या: किन्नरवध्वस्तासां कण्ठेभ्य: उन्मिषन्त्यः उद्भवन्त्यः याः
काकल्यः मधुरास्फुटध्वनय याश्च काकव: शोकभीत्या दिप्रयुक्तविकारध्वनयः ।
'काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे' 'काकुः स्त्रियां. विकारो यश्शोक-
भीत्यादिभिर्ध्वनेः' इति च अमरः । उभयीभिस्ताभिः व्याकुलिताः रवाः ध्वनयः
दिविषदां देवासुराणां जीवातवः उज्जीविकाः । 'जीवातुर्जीवनौषधम्' इत्यमरः ।
जज्ञिरे सजाता इत्यर्थः । परदेवतां मोहिनीरूपधारिणीं वर्णयितुमारभते ॥
उपेति ॥ तस्मिन्नुपवने आरामे 'आराम: स्यादुपवनम्' इत्यमरः । उपान्तस्स
मीपदेश : तस्मिन् निरूढाः याः कदळ्यः रम्भासंज्ञिक सप्तवर्ण वृक्षाः तासां गर्भा:
कुक्षिदेशा: । 'कुक्षित्रणार्मका गर्भाः' इत्यमरः । तेषु कन्दळितास्समुत्पन्नाः
 
*
 
..
 
xo
 
1. " पिंक: कूजति पञ्चमम् इति षड्ज, ऋषभ, गान्धार, पञ्चम, धैवत,
विषादाख्यस्वरपञ्च कस्वरूपांदिक चान्यन्त्र विस्तृतम् ॥