This page has been fully proofread twice.

ञ्चरदळिकुलभारपराकीर्णपरागपुञ्जपिञ्जरासारसारणीसलिलपूरपूरितालवालबालपादपच्छायसुख- निषण्णकिन्नरीसँल्लापसमाकर्णनोल्लसितकर्णिकारकलिकानिकायरमणीयम्, अनतिक्रमणीयशम्बरशासनशासवीटिकायमानपल्लवभङ्गंधारणनिरातङ्कशारिकासङ्घकिङ्करीभूत- युवलोकलोचनानन्दनं नन्दनमिव भुवि निवेशितमखिलगुणाभिराममारामम् ।
 
[commentary]
 
तथाभूतो यो विरहोदन्तः वियोगवृत्तान्तः । 'वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः' इत्यमरः । तेन दूयमानाः दुःखिताः या मानिन्यः प्रमदाः । 'प्रमदा मानिनी कान्ता' इत्यमरः । ता एव जनाः तैरावर्जितानि विरचितानि यानि पल्लवभङ्गानां किसलयशकलानां रूपाणि शयनानि शय्याः । ' शयनं मञ्चपर्यंङ्कपल्यङ्काः' इत्यमरः । तैस्समुल्लसिताः । कर्तरि क्तः । प्रकाशमाना इत्यर्थः । ये लताकुञ्जाः लतागृहाः । 'निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे' इत्यमरः । तैः मञ्जुलं मनोहरमित्यर्थः । विटपिनो वृक्षाः । 'विटपी पादपस्तरुः' इत्यमरः । तेषु सञ्चरन्ति यान्यळीनां भ्रमराणां कुर्लानि । 'षट्पदभ्रमराळयः' 'सजातीयैः कुलं यूथम्' इति च अमरः । तान्येव भाराः वोढव्यवीवधविशेषाः । 'भारो भरे वीवधे च पलानां द्विसहस्रके' इत्यमरशेषः । तेन पर्याकीर्णः विकीर्णः यः परागाणां पुष्पधूळीनां पुञ्जो राशिः । 'परागस्सुमनोरजः' इत्यमरः । 'स्यान्निकायः पुञ्जराशी' इति च । तैः पिञ्जराः चित्रवर्णाः, आसाराः धारासम्पाताः यासां तथाभूताः सारिण्यः क्षुद्रकुल्याः तासां सलिलपूरः तेन पूरितानि आलवालानि मूलस्थलपरिष्कृतभूमयो येषां तथाभूताः ये बालपादपाः वृक्षाः तेषां छायाः अनातपाः तेषु सुखेन निषण्णाः उपविशन्त्यः याः किन्नर्यः किन्नरस्त्रियः तासां सँल्लापाः आलापाः तेषां समाकर्णनं श्रवणं तेन समुल्लसिताः विकसिताः ये कर्णिकाराः वृक्षविशेषाः । 'कर्णिकारः परिव्याधो लकुचो लिकुचो डहुः' इत्यमरः । तेषां कलिकानानां कोरकाणाम् । 'कलिका कोरकः पुमान्' इत्यमरः । निकायः पुञ्जः 'स्यान्निकायः पुञ्जराशी' इत्यमरः । तेन रमणीयं मनोहरम् । अनतिक्रमणीयः अनुल्लङ्घ्यशासनो यश्शम्बरशासनः मदनः तस्य वीटिकायमानाः सुधालिप्तचर्वणोपयोगिताम्बूलदळायिता इत्यर्थः । तथाभूताः पल्लवभङ्गाः किसलयशकलानि तेषां
धारणं वहनं तस्मिन् निरातङ्का जागरूका याः शारिकाः पक्षिविशेषाः तेषां सङ्घस्य