This page has been fully proofread once and needs a second look.

पञ्च माश्वासः
 
३६७
 
ञ्चरदळिकुलभारपराकीर्ण परागपुञ्जपिञ्जरासारसारणीसलिलपूरपूरिताल-
वालबालपादपच्छाय सुखेख- निषण्ण किन्नरीसँल्लापसमाकर्णनोल्लसितकर्णिकार-
कलिकानिकायरमणीयम्, अनतिक्रमणीयशम्बरशासनशासवीटिकाय-
मानपल्लव भङ्गंधारणनिरातङ्कशारिकासङ्घकिङ्करीभूत- युवलोकलोचनानन्दनं
नन्दनमित्र भुवि निवेशित मखिलगुणाभिराममारामम् ।
 

 
वृक्षाः
 

 
[commentary]
 
तथाभूतो यो विरहोदन्तः वियोगवृत्तान्तः । 'वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्याद-
थाह्वयः' इत्यमरः । तेन दूयमानाः दुःखिताः या मानिन्यः प्रमदाः ।
'प्रमदा मानिनी कान्ता'. इत्यमरः । ता एव जनाः तैरावर्जितानि
विरचितानि यानि पल्लवभङ्गानां किसलयशकलानां रूपाणि शयनानि
शय्याः । 'शयनं मञ्चपर्यंङ्कपल्यङ्काः' इत्यमरः । तैस्समुल्लसिताः । कर्तरि क्तः ।
प्रकाशमान इत्यर्थः । ये लताकुञ्जा:जाः लतागृहाः । 'निकुञ्जकुञ्जौ वा
की लता
क्लीबे लतादिपिहितोदरे' इत्यमरः । तैः मञ्जुलं मनोहरमित्यर्थः । विटपिनो
वृक्षाः । 'विटपी पादपस्तरु:रुः' इत्यमरः । तेषु सञ्चरन्ति यान्यळीनां
भ्रमराणाणां कुर्लानिंनि । 'षट्पदभ्रमराळ्य:ळयः' 'सजातीयैः कुलं यूथम्' इति च अमरः ।
तान्येव भारा:राः वोढव्यवीवविशेषाः । 'भारोंरो भरे वीवघेधे च पलानां
द्विसहस्रके' इत्यमरशेषः । तेन पर्याकीर्ण:णः विकीर्णः यः परागाणां
पुष्पधूळीनां पुञ्जो राशिः । 'परागस्सुमनोरजः' इत्यमरः । 'स्यान्निकाय:
यः पुञ्जराशी)' इति च । तैः पिञ्जराः चित्रवर्णाः, आसाराः धारासम्पाताः यासां
तर्
थाभूताः सारिण्य:यः क्षुद्रकुल्यायाः तासां सलिलपूर:रः तेन पूरितानि आलवालानि
मूलस्थेलपरिष्कृतभूमयोंयो येषोंषां तथाभूताः ये बालपादपाः वृक्षाः तेषां छायाः
अनातपाः तेषु सुखेन निषण्णाः उपविशन्त्यः याः किन्नर्य:यः किन्नरस्त्रियः तासां
सँल्लापा:पाः आलापाः तेषां समाकर्णनं श्रवणं तेन समुल्लसिताः विकसिताः ये कर्णि-
कारो:
काराः वृक्षविशेषाः । 'कर्णिकार:रः परिव्याघोधो लकुचो लिकुचो डहुः' इत्यमरः ।
तेषां कलिकाना कोरकाणाम् ।' 'कलिका कोरकः पुमान्' इत्यमरः । निकाय:यः पुञ्ज :
जः 'स्यान्निकीय:कायः पुञ्जराशी' इत्यमरः । तेन रमणीयं मनोहरम् । अनतिक्रमणीयः
अनुलड्ल्लङ्घ्यशासनो यश्शम्बरशासन:नः मदनः तस्य वीटिकायमानाः सुधालिप्तचर्वणोप-
योगिताम्बूलदळायिता इत्यर्थ:थः । तथाभूताः पल्लवभङ्गाः किसलयशकलानि तेषां

धारणं वहनं तस्मिन् निरातङ्का जागरूका याः शारिकाः पक्षिविशेषाः तेषां सङ्घस्य