This page has been fully proofread twice.

भग्नरथा भग्नाश्वा भग्नबलो भग्नशस्त्रास्त्राः ।
निर्विद्य मुवि निषेदुस्सममुभये सर्वतो भग्नाः ॥ ३८ ॥
 
परिश्रान्ताश्च ते परितोऽपि चक्षुर्व्यापारयाञ्चक्रिरे । अद्राक्षुश्च ते तत्र किञ्चिदपर्यायसमुन्मिषच्चम्पकवकुळहरिचन्दनतिलकमल्लिकासहकारमाधवीकरवीरवासन्तिका- कुसुमपरिमळोद्गारिमारुतानुसा[^१]रिमधुकरीगानकलकलोन्मिश्रकलकण्ठकण्ठनादमेदुरम्, दुरन्तविरहोदन्तदूयमानमानिनीजनावर्जितपल्लवशयनसमुल्लसितलताकुञ्जमञ्जुलम्, वञ्जुळविटपिस-
 
[commentary]
 
भग्नेति ॥ भमरथाः विनष्टस्यन्दनाः भग्नाश्वा भग्नबलाः भग्नशस्त्रास्त्राः अत एव सर्वतो भग्ना उभये देवासुराः सममेकदा निर्विद्य युद्धान्निर्वेदं प्राप्येत्यर्थः । भुवि निषेदुरुपविविशुरित्यर्थः ॥ परीति ॥ परिश्रान्ता विश्रान्ताः सर्वे ते देवासुराः परितस्सर्वतोऽपि चक्षुः व्यापारयाञ्चक्रिरे प्रसारयामासुरित्यर्थः ॥ अद्राक्षुरिति ॥ ततः चक्षुःप्रसारणानन्तरं च ते सर्वे देवासुराः किञ्चिदीषदप्यपर्यायेण पौर्वापर्यराहित्येन समुन्मिषन्तः विकसन्तः यः चम्पकः चाम्पेयवृक्षः । 'अथ चाम्पेयश्चम्पको हेमपुष्पकः' इत्यमरः । स च वकुळः अशोकः । 'वकुळो वञ्जुळोऽशोके समौ' इत्यमरः । स च हरिचन्दनः श्रीगन्धवृक्षः तिलकः । 'तिलकः क्षुरकः श्रीमान् समौ पिचुळजाबुकौ' इत्यमरः । तौ च मल्लिका गिरिमल्लिकावृक्षः श्रीहस्तिनीवृक्ष इति वाऽर्थः । 'वत्सको गिरिमल्लिका' 'श्रीहस्तिनी तु भूरुण्डी तृणशूल्यं तु मल्लिका' इति च अमरः । सहकारो रसालः स च माधवी वासन्तिकालता,
'वासन्ती माधवीलता' इत्यमरः । सा च करवीरः करवीरवृक्षः स चेति द्वन्द्वः । समुन्मिषतामेतेषां यानि कुसुमानि तेषां परिमळो गन्धः । 'परिमळो गन्धे जनमनोहरे' इत्यमरः । तमुद्गरितुं प्रकटीकर्तुं शीलं यस्य स तथाभूतो यो मारुतः तमनुसर्तुं शीलं यासां ताः तथाभूता याः मधुकर्यः भ्रमर्यः तासां गानेनं यः
कलकलः कोलाहलध्वनिः तेन उन्मिश्रः मिळितः कलकण्ठानां भरताख्यपक्षिविशेषाणां यो नादः ध्वनिः । 'दात्यूहः कालकण्ठकः' इत्यमरः । तेन मेदुरं सान्द्रम् । 'सान्द्रस्सिग्धस्तु मैदुरः' इत्यमरः । दुःखेन अतितुं बद्धुं निग्रहीतुं शक्यः दुरन्तः दुर्निग्रह इति यावत् । 'ईषद्दुःसुषु' (३.३.१२६) इत्यादिना खल्प्रत्ययः ।
 
[^१] नन्दनाभिरामारामवर्णने कविः सुगन्धिकुसुमानि नव मुख्यानि निर्दिशति ॥