This page has been fully proofread once and needs a second look.

नीलकण्ठविजये संव्याख्याने
 
-
भग्नरथा भग्नाश्वा भग्नबलो भग्नशस्त्रास्त्राः ।

निर्विद्य मुवि निषेदुस्सममुभये सर्वतो भग्नाः ॥ ३८ ॥

 
परिश्रान्ताश्च ते परितोऽपि चक्षुर्व्यापारयाञ्चक्रिरे । अद्राक्षुश्च
ते तत्र किञ्चिदपर्यायसमुन्मिषञ्च्चम्प केवकुळहरिचन्दनतिलक मल्लिकास-
हकारमाधवीकरवीरवास न्तिकोन्तिका- कुसुमपरिमळोदाद्गारिमारुतानुसा' [^१]रिमधुकरी -
गानकलकलोन्मिश्रकलकण्ठकण्ठनादमेदुरम्, दुरन्तविरहोदन्तदूयमानमा -
निनीजनावर्जित पल्लत्रशयनसमुल्लसितलताकुञ्जमञ्जुलम्, वञ्जुळविटपिस-
-
 

 
[commentary]
 
भग्
नेति ॥ भमरथाः विनष्टस्यन्दनाः भ्रमाभग्नाश्वा भग्नबलाः भग्नशस्त्रास्त्राः अत एव
सर्वतो भग्ना उभये देवासुरों:राः सममेकदा निर्विद्य युद्धान्निर्वेदं प्राप्येत्यर्थः । भुवि
निषेदुरुपविविशुरित्यर्थः ॥ परीति ॥ परिश्रान्ता विश्रान्ताः सर्वे ते देवासुराः
परितस्सर्वतोऽपि चक्षुः व्यापारयाञ्चक्रिरे प्रसारयामासुरित्यर्थः ॥ अद्राक्षुरिति ॥
ततः चक्षुः प्रसारणानन्तरं चॅ तेंच ते सर्वे देवासुराः किञ्चिदीषद प्यपर्यायेण
पौर्वापर्यराहित्येन समुन्मिषन्तः विकसन्तः यः चम्पकः चाम्पेयवृक्षः । 'अथ चाम्पे-
यश्चम्पको हेमपुष्पकः' इत्यमरः । स च वकुळ :ळः अशोकः । 'वकुळो वञ्जुळोऽ-
शोके समौ' इत्यमरः । स च हरिचन्दनः श्रीगन्धवृक्षः तिलकः । 'तिलक:
कः क्षुरकः श्रीमान् समौ पिचुळजाबुकौंकौ' इत्यमरः । तोतौ च मल्लिका 'गिरिमल्लिकावृक्षः
श्रीहस्तिनीवृक्ष इति वाऽर्थः । 'वत्सकोंको गिरिमल्लिका' 'श्रीहस्तिनी तु भूरुण्डी तृण-
शूल्यं तु मल्लिका' इति च अमरः । सहकारो रसाल:लः स च माधवी वासन्तिकालता,

'वासन्ती मावीलता' इत्यमरः । सा च करवीरः करवीरवृक्षः स चेति द्वन्द्वः ।
समुन्मिषतामेतेषां यानि कुसुमानि तेषां परिमळो गन्धः । 'परिमळो गन्धे
जनमनोहरे' इत्यमरः । तमुद्द्विरितुं प्रकटीकर्तुं शीलं यस्य स तथाभूतो यो मारुतः
तमनुसर्तुं शीलं यासां ताः तथाभूता याः मधुकर्यः भ्रमर्यः तासां गानेनं यः
कलकल:

कलकलः
कोलाहलध्वनिः तेन उन्मिश्रः मिळितः कलकण्ठानां भरताख्यपक्षिवि
शेषाणां यो नादः ध्वनिः । 'दात्यूहः कालकण्ठकः' इत्यमरः । तेन मेंमेदु
रं सान्द्रम् । 'सान्द्रस्सिँसिग्धस्तु मैदुरः' इत्यमरः । दुःखेन अतितुतुं बद्धुधुं निग्रहीतुं शक्यः
दुरन्तः दुर्निग्रह इति यावत् । -'ईषद्दुः सुषु' : (3-3-126३.३.१२६) इत्यादिना खल्प्रत्ययः ।
 
24
 
-POF
 
MES
 
DIF Apी कर MR
 

 
[^१]
नन्दनाभिरामारावर्णने कविः सुगन्धिकुसुपामानि नव मुख्यानि निर्दिशति ॥
 
1.