This page has been fully proofread once and needs a second look.

पञ्चमाश्वासः
 
भावभ
बन्धत्सु निर्जरेषु, चिन्तयन्मनसा चिरमाराध्य परां शक्तिम्, आसाद्य
तदीयमेव मोहनं रूपमतिसन्धाय दानवाननुगृह्णीयाममरानिति कृत-
निश्चयस्सद्य एवं तिरोदधे सह कमालासनेन कमललोचनः । ततश्च ।
 

 
दोर्भिर्दुर्भरशैल निर्भरपरीवर्तावसीदद्बलैः

गात्रैरुद्भटकालकूटगरळज्वालावलीढोज्झितैः ।

उत्तालैः श्वसितैरुपर्युपरि च प्राणैः प्रतिष्ठासुभिः

स्पर्धामात्रब'[^१]लोत्तरा युयुधिरे देवैस्समं दानवाः ॥ ३७ ॥

 
201204
 

 
[commentary]
 
कच्छपुटलक्षणगात्रबन्धम् । 'परिवारे परिकरः पर्यङ्कनिकुरुम्बयोः । प्रगाढे गात्र-
बन्धे च. विवेकारम्भयोरपि ' इति भास्करः । आबध्नत्सु बन्धनं कुर्वत्सु सत्सु
मनसा चिन्तयन्नालोचयन् कमललोचनः परामुत्कृष्टां शक्तितिं आदिदेवतां दुर्गा-
देवीमित्यर्थ:थः । आराध्य सम्पूज्य । 'शक्ति:तिः कासूः प्रभुत्वादिबलं दुर्गादिदेवता' इति
भास्करः । तदीयं परदेवतासम्बन्धीत्यर्थः । मोहनं जगद्विमोहकरूपम् आसाद्य प्राप्य
दानवान तिसन्धाय वेञ्चयित्वा अमराननुगृह्णीयां प्रसादं कुर्यामित्यर्थः ॥ इतीति ॥
इति इत्थं कृतनिश्चयस्सन् सद्य एव कमलासनेन ब्रह्मणा सह तिरोदधे अन्तर्धानम-
भजतेत्यर्थः । तथा चोक्तं देवीभागवते 'महालक्ष्मीप्रसादेन विष्णुः स्त्रीरूपमा-
स्थित' इति ॥ दोर्भिरिति ॥ दुःखेन भर्तुं शक्यो दुर्भर: यरः यश्शैलो मन्दरः तेन
निर्भरमत्यन्तं परिवृत्तानि व्यत्यस्तानि अवसीदद्लानि विनश्यत्सामर्थ्यानि येषां
तथाभूतैः दोर्भिः बाहुभिः । मन्दरवहनादेव विनष्टभुजबला इत्यभिप्रायः । उद्भटाः
अतिदुस्सहा:हाः ये कालकूटस्य गरळस्य ज्वालाः तैः अवलीढाश्च ते उज्झिताश्चेति
स्नातानुलिप्तवत्समासः । तथाभूतैः गात्रैः देहैः । 'गात्रं वपुस्संहननम्' इत्यमरः ।
उत्ताळ:ळैः उत्सृष्टताळपरिमाणैः अतिदीधैःर्घैः श्वसितैः मुखवायुभि:भिः प्रस्थातुं प्रयातुमि-
च्छन्तः प्रतिष्ठासवः तथाभूतैः प्राणैश्च उपलक्षिता इति शेष:षः । दानवाः बलिया-
बाणादयः स्पर्धांधामात्रं अभिभवनेच्छैव बलं सामर्थ्यं तेन उत्तराः उत्तमास्सन्तः ।
'त्रिषूदीच्योत्तमोर्ध्वेषूत्तरः' इति भास्करः । देवैस्समं युयुधिरे युद्धं चक्रुरित्यर्थः ॥
 
1.

 
[^१]
दानवानामपीदृशी दशा - यत् मन्दर परिवर्तनेन दोर्बलं नष्टं, गरलज्वालया
गात्राणि दग्धानि, श्वसितानि उत्तालानि, प्राणाः प्रतिष्ठासवः, स्पर्धेधैव केवलं युद्धकरणे
बलमूःम् इति ॥