2023-06-05 16:40:48 by ambuda-bot
This page has not been fully proofread.
पञ्चमाश्वासः
भावभत्सु निर्जरेषु, चिन्तयन्मनसा चिरमाराध्य परां शक्तिम्, आसाद्य
तदीयमेव मोहन रूपमतिसन्धाय दानवाननुगृह्णीयाममरानिति कृत-
निश्चयस्सद्य एवं तिरोदधे सह कमालासनेन कमललोचनः । ततश्च ।
दोभिर्दुर्भरशैल निर्भरपरीवर्तावसीदइलैः
गात्रैरुद्भटकालकूटगरळज्वालावलीढोज्झितैः ।
उत्तालैः श्वसितैरुपर्युपरि च प्राणैः प्रतिष्ठासुभिः
स्पर्धामात्रब'लोत्तरा युयुधिरे देवैस्समं दानवाः ॥ ३७ ॥
॥
201204
कच्छपुटलक्षणगात्रबन्धम् । 'परिवारे परिकरः पर्यकनिकुरुम्बयोः । प्रगाढे गात्र-
बन्धे च. विवेकारम्भयोरपि ' इति भास्करः । आबनत्सु बन्धनं कुर्वत्सु सत्सु
मनसा चिन्तयन्नालोचयन् कमललोचनः परामुत्कृष्टां शक्ति आदिदेवतां दुर्गा-
देवीमित्यर्थ: । आराध्य सम्पूज्य । 'शक्ति: कासूः प्रभुत्वादिबलं दुर्गादिदेवता' इति
भास्करः । तदीय परदेवतासम्बन्धीत्यर्थः । मोहनं जगद्विमोहकरूपम् आसाद्य प्राप्य
दानवान तिसन्धाय वेञ्चयित्वा अमराननुगृह्णीयां प्रसादं कुर्यामित्यर्थः ॥ इतीति ॥
इति इत्थं कृतनिश्चयस्सन् सद्य एव कमलासनेन ब्रह्मणा सह तिरोदधे अन्तर्धानम-
भजतेत्यर्थः । तथा चोक्तं देवीभागवते 'महालक्ष्मीप्रसादेन विष्णुः स्त्रीरूपमा-
स्थित' इति ॥ दोभिरिति ॥ दुःखेन भर्तुं शक्यो दुर्भर: यशैलो मन्दरः तेन
निर्भरमत्यन्तं परिवृत्तानि व्यत्यस्तानि अवसीदद्वलानि विनश्यत्सामर्थ्यानि येषां
तथाभूतैः दोर्भिः बाहुभिः। मन्दरवहनादेव विनष्टभुजबला इत्यभिप्रायः । उद्भटाः
अतिदुस्सहा: ये कालकूटस्य गरळस्य ज्वालाः तैः अवलीढाश्च ते उज्झिताश्चेति
स्नातानुलिप्तवत्समासः । तथाभूतैः गात्रैः देहैः । 'गात्रं वपुस्संहननम्' इत्यमरः ।
उत्ताळ: उत्सृष्टताळपरिमाणैः अतिदीधैः श्वसितैः मुखवायुभि: प्रस्थातुं प्रयातुमि-
च्छन्तः प्रतिष्ठासवः तथाभूतैः प्राणैश्च उपलक्षिता इति शेष: । दानवाः बलिया-
णादयः स्पर्धांमात्रं अभिभवनेच्छैव बलं सामर्थ्यं तेन उत्तराः उत्तमास्सन्तः ।
'त्रिषूदीच्योत्तमोर्ध्वेषूत्तरः' इति भास्करः । देवैस्समं युयुधिरे युद्धं चक्रुरित्यर्थः ॥
1. दानवानामपीदृशी दशा- यत् मन्दर परिवर्तनेन दोर्बलं नटं, गरलज्वालया
गात्राणि दग्धानि, श्वसितानि उत्तालानि, प्राणाः प्रतिष्ठासवः, स्पर्धेव केवलं युद्धकरणे
बलमूः इति ॥