This page has been fully proofread twice.

अस्ति स्वादयितुं सुधास्ति वसितुं वासो नभश्चारिणां
धर्तुं सन्ति च भूषणानि शतशो न त्वस्ति धीर्जीवितुम् ।
येनान्यानुपजीव्यसर्वविभवे कर्मैकलभ्ये पदेऽ-
प्यायस्यन्ति वृथैव सेवक इति स्वामीति दुर्मेधसः ॥ १२॥
 
[commentary]
 
निग्रहीतुं योग्यम् । यत् नृणां करणद्वारं इन्द्रियमेव द्वारं वर्तते, तदेव तत्र गृहेषु द्वारं प्रतीहारः । जात्याख्यायामेकवचनम् । एवंच शमदमतीर्थाटनसत्कर्मैकसाध्योऽयं स्वर्गलोकभोग इति भावः । नन्वानन्दनिचयामरावती चेत् तत्रत्यानां देवानाामिन्द्रस्येव अनायासस्थितिस्स्यादिति चेत्तत्रापि प्रारब्धस्य दुस्त्यजत्वान्नेत्याशयेनाह ॥ अस्तीति ॥ नभश्चारिणां देवानां स्वादयितुं आस्वादयितुम् ।
"ष्वद आस्वादन"[^१] इति धातोस्तुमुन् । सुधा अमृतं अस्ति । वसितुमाच्छादयितुम् । वस [^२]आच्छादन इति धातोस्तुमुन्, वासः वस्त्रं अस्ति । र्तुं वोढुं भूषणानि शतशः अनेकानि । "बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्" पा. सू.(५.४.४२) इति शस्प्रत्ययः । सन्ति वर्तन्ते । तथापीति शेषः । जीवितुं सुखेनेति शेषः। धीः बुद्धिः नास्ति, येन कारणेन अन्यानुपजीव्यसर्वविभवे उपजीवितुं योग्याः उपजीव्याः सम्पादनीया इत्यर्थः । सोपसर्गस्य धातोरनेकार्थत्वात् । न उपजीव्याः अनुपजीव्याः अन्येभ्यः अनुपजीव्याः सर्वे विभवा अभ्युदया यस्मिन् तत्तथाभूतेऽपि । यद्वा अन्यानुपजीव्येति पदद्वयम् । कर्मैकलभ्ये कर्मणा एकेन लभ्ये कर्मणैव प्राप्ये इत्यर्थः । एवंविधेऽपि पदे वृथैव वेतनादिकं विहायैव । स्वामीति अयं मम स्वामीति, सेवक इति भृत्य इति, दुष्टा मेधा येषां ते दुर्मेधसः । "नित्यमसिच्प्रजामेधयोः" (पा. सू. ५.४.१२२) इत्यसिच्प्रत्ययः, दुर्बुद्धय इति यावत् । आयस्यन्ति क्लिश्नन्ति । तत्रापि प्रारब्धस्यापरिहार्यत्वाद्बुद्धेः कर्मानुसारित्वेन दुर्मेधस्त्वं दुस्त्यजमिति भावः । महात्मनां चेतांसि उचितज्ञतां च दिव्या अपि विषया अन्यथाकर्तुं त्याजयितुं समर्था न भवन्तीत्याशयेन तत्र वसतां शीलमुत्प्रेक्ष्य वर्णयितुमारभते ॥ इदमिति ॥
 
[^१] चुरादौ "आस्वदः सकर्मकात्" -- इत्यत्र षट्पञ्चाशत्तमो धातुः आस्वदीयः ॥

[^२] अयं धातुः (वसनिवासे इति) अदादौ पृच्यन्तेषु अनुदात्तेत्सु षष्ठः ।