This page has not been fully proofread.

प्रथमाश्वासः
 
अस्ति स्वादयितुं सुधारित वसितुं वासो नभचारिणां
धर्तुं सन्ति च भूषणानि शतशो न त्वस्ति धीर्जीवितुम् ।
येनान्यानुपजीव्यसर्व विभवे कर्मैकलभ्ये पदेऽ-
प्यायस्यन्ति वृथैव सेवक इति स्वामीति दुर्मेधसः ॥ १२॥
 
निग्रहीतुं योग्यम् । यत् नृणां करणद्वारं इन्द्रियमेव द्वारं वर्तते, तदेव तत्र
गृहेषु द्वारं प्रतीहारः । जात्याख्यायामेकवचनम् । एवंच शमदमतीर्थाटनसत्कर्मै-
कसाध्योऽयं स्वर्गलोकभोग इति भावः । नन्वानन्दनिचयामरावती चेत् तत्रत्यानां
देवानाामिन्द्रस्येव अनायासस्थितिस्स्यादिति चेत्तत्रापि प्रारब्धस्य दुस्त्यजत्वान्ने-
त्याशयेनाह ॥ अस्तीति ॥ नभश्चारिणां देवानां स्वादयितुं आस्वादयितुम् ।
""वद आस्वादन " " इति धातोस्तुमुन् । सुधा अमृत अस्ति । वसितुमाच्छादयि-
तुम् । वस 2 आच्छादन इति धातोस्तुमुन्, वासः वस्त्र अस्ति । घर्तुं वोढुं
भूषणानि शतश: अनेकानि । " बहल्पार्थाच्छस्कारकादन्यतरस्याम् " पा. सू.
(5-4-42) इति शस्प्रत्ययः । सन्ति वर्तन्ते । तथापीति शेषः । जीवितुं
सुखेनेति शेषः। धीः बुद्धिः नास्ति, येन कारणेन अन्यानुपजीव्यसर्वविभवे
उपजीवितुं योग्याः उपजीव्याः सम्पादनीया इत्यर्थ: । सोपसर्गस्य धातोरनेकार्थ-
त्वात् । न उपजीव्याः अनुपजीव्याः अन्येभ्यः अनुपजीव्याः सर्वे विभवा
अभ्युदया यस्मिन् तत्तथाभूतेऽपि । यद्वा अन्यानुपजीव्येति पदद्वयम् । क
कलभ्ये कर्मणा एकेन लभ्ये कर्मणैव प्राप्ये इत्यर्थः । एवंविधेऽपि पदे
वृथैव वेतनादिकं विहायैव । स्वामीति अयं मम स्वामीति, सेवक इति भृत्य
इति, दुष्टा मेघा येषां ते दुर्मेधसः । " नित्यमसिच्प्रजामेधयो: " (पा. सू.
5-4-122) इत्यसिच्प्रत्ययः, दुर्बुद्धय इति यावत् । आयस्यन्ति क्लिनन्ति ।
तत्रापि प्रारब्धस्यापरिहार्यत्व।हुद्धेः कर्मानुसारित्वेन दुर्मेधस्त्वं दुस्त्यजमिति भावः ।
महात्मनां चेतांसि उचितज्ञतां च दिव्या अपि विषया अन्यथाकर्तुं त्याजयितुं समर्था
न भवन्तीत्याशयेन तत्र वसतां शीलमुत्प्रेक्ष्य वर्णयितुमारभते ॥ इदमिति ॥
 
1. चुरादौ "आस्वद: सकर्मकात्" - इत्यत्र षट्पञ्चाशत्तमो धातुः आस्वदीयः ॥
अयं धातुः (वस निवासे इति) अदादौ पृच्यन्तेषु अनुदात्तेत्सु षष्ठः ।
 
2.