2023-08-29 07:18:16 by Bharadwajraki
This page has been fully proofread twice.
कति भग्ना गिरिवहने कति प्रपतिता वासुकेस्समानयने ।
कति दग्धाःधा भुजगविषैः कति भागानिह पिबेमेति ॥ ३५ ॥'
इति वदत्सु दानवेषु वाचस्पतिरिदमभाषत ।
'यद्भग्नेषु भवत्सु पूर्वमनिलेनैवाद्रिराकम्पितो
यच्चापत्यकळत्रदर्शनकृते यूयं गता भूतलम् ।
यद्वा भोगिपतेः फणाग्रवहनं युष्माभिरेवार्थितं
सर्वं वेद स एष एव भवतामाचार्यपादः कविः ॥ ३६ ॥'
इत्युत्तरोत्तरयुक्तिवादिनि वाचस्पतौ, प्रतिवदति च यथाशक्ति भार्गवे, परिणमति शनैः कलहे, प्रहरणादानभीषणेषु दानवेषु, परिकर-
[commentary]
॥ कतीति ॥ गिरिर्मन्दरः तस्य वहने कति दानवाः भग्नाः नष्टा इत्यर्थः । वासुकेस्समानयने कति दानवाः पतिताः च्युता इत्यर्थः । बहवो नष्टा इति भावः । भुजगो वासुकिः तस्य विषैः कति दानवा दग्धाः । इह अवशिष्टा वयं कति भागान् पिबेमेति । तथा चोक्तं देवीभागवते 'समन्तात्तत्र दैत्यास्ते ज्येष्ठभागजिघृक्षया । मन्दरं चालयन्तोऽद्रिं नष्टाः केचिन्महावटे ॥ वासुकेर्मुखनिःश्वासैः दग्धा दैत्यास्तथापरे' इति ॥ इतीति ॥ इति इत्थं दानवेषु वदत्सु सत्सु वाचस्पतिरिदं वचनमभाषत ॥ यदिति ॥ हे दानवाः भवत्सु युष्मासु भग्नेषु भङ्गं प्राप्तेषु सत्स्वित्यर्थः । पूर्वं प्रथमतः अनिलेनैव, अद्रिः मन्दरः आकम्पितः प्रचालित इति यत्, किञ्च अपत्यकळत्रदर्शनकृते पुत्रदारादिसन्दर्शनार्थमित्यर्थः । यूयं भूतलं पाताळं गताः याता इति यत् भोगिपतेर्वासुकेः फणाग्रवहनं वा युष्माभिरेव अर्थितमिति यत् तत्सर्वं भवतामाचार्यपादः उपदेष्टा । 'मन्त्रव्याख्याकृदाचार्यः' इत्यमरः । स एष कविः शुक्रः । 'उशना भार्गवः कविः' इत्यमरः । वेद जानातीत्यर्थः ॥ इतीति ॥ इतीत्थं उत्तरोत्तरमुपर्युपरि युक्तिं
स्वपक्षसाधनोपपत्तिं वदितुं शीलं यस्य स तथाभूते वाचस्पतौ विषये भार्गवे कवौ यथाशक्ति प्रवदति प्रत्युत्तरं कुर्वति सति शनैश्शनैः कलहः युद्धं तस्मिन् परिणमति प्रसक्ते सति दानवेषु प्रहरणान्यायुधानि तेषामादानं धारणं तेन भीषणेषु सत्सु । 'दारुणं भीषणं भीष्मम्' इत्यमरः । निर्जरा देवास्तेषु परिकरं
कति दग्