This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
सामाजिकानाम्, परिवृत्य सुधाकलशम्, परिगृह्णन्तः प्रहरणानि,
परिमेळयन्तः स्ववाबान्धवान्, अवतारयामासुरादितः कामपि विवाद -
कथाम् ; 'भगवन्तौ चक्रायुधचतुर्मुखौ कथमत्र भवितव्यं विभागेन ।
अथवा न पृच्छामो युवाम् ।
 

 
आमन्त्रिताः स्मो न वयं युवाभ्यां
भी

अभ्यर्थिताः स्मो न च सान्त्ववादैः ।

अस्माभिरादो समयं बबन्धु-
सं

रा
गत्य ये तान् वयमालपामः ॥ ३२ ॥
 
255
 

 
ननु, च भो भ्रातरस्सुपर्वाश्शृणुत यूयम् अपि जानीध्वे समय-
1
[^१]माचार्येण वः कृतमस्मासु 1
 

 
[c
og
 
2
 
mmentary]
 
स्वजनास्समाः' इत्यमरः। परिमेळ्यन्तः पुञ्जीकुर्वन्तः । आदितः आदौ । सप्तम्या -
स्तसिः । कामपि यामेकामित्यर्थः; विवादस्य कथा प्रस्तावः । तां अवतारयामासुः
उपचक्रमुरित्यर्थः ॥ भगवन्ताविति ॥ हे भगवन्तौ चक्रायुधचतुर्मुखौ विष्णु-
ब्रह्माणावित्यर्थः । अत्र एतदमृतविषये विभागेन भिन्नांशेन । 'भागस्तुरीयः पादः
स्यादेदंशभागौ तु वण्टकः' इत्यमरः । कथं भवितव्यं केन वा प्रकारेण विभजनं

कार्यं तद्ब्रूतमित्यभिप्राय:यः ॥ अथवेति ॥ अथवा आहोस्वित् युवां न पृच्छामः
पृच्छोंछां न कुर्म इत्यर्थः । तत्कुत इति चेदत आह ॥ आमन्त्रिता इति ॥ युवाभ्यां
भवद्भ्यां आमन्त्रिता:ताः आहूताः न स्मः न बभूविमेत्यर्थः । 'वर्तमान सामीप्ये
वर्तमानवद्वा' (3-3-131३.३.१३१) इति वा लट् । सान्त्ववादैः प्रियोक्तिभिः अभ्यर्थिताः
सम्प्रार्थिताश्च न स्मैःमः । आदौ प्रथमं ये देवाः आगत्य अस्माभिस्समं समयं सपर्थथं,

'समयाश्शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । बबन्धुः चक्रुरिति तात्पर्यार्थः ।
तान् देवान् प्रति वयं आलपामः पृच्छामः । 'स्यादाभाषणमालाप' इत्यमरः ॥
नन्विति ॥ ननु च भो भ्रातरः अवरजा इत्यर्थः ।' 'भगिन्यौ भ्रातरौ '
ननु च
' इत्यमरः । वः युष्माकमीमाचार्येण बृहस्पतिना अस्मासु विषये कृतं व्यवस्थितं
समय
समयं सिद्धान्तं यूयं भवन्तोऽपि जानध्वे ननु मनुध्वे किलेत्यर्थः । सन्धिकाले
 
1.

 
[^१]
बृहस्पतिंनीतिना कृतः संकेतः समयपदवाच्यः ।
 
÷