2023-08-29 06:40:49 by Bharadwajraki
This page has been fully proofread twice.
सकरुणमनुगृह्णन् सानुरागैरपाङ्गैः
अकिरदमृतवर्षैरेनमार्द्रैर्वचोभिः ॥ ३१ ॥
तदनु यथागतं गते सरस्वति, सरस्वतीरमणशतमन्युमुखाः बहिर्मुखाः प्रतीक्षमाणा निदेशं परमेश्वरस्य परिवार्य केशवमवतस्थिरे । दानवास्तु मध्ये निधातव्यममृतकलशं मधुसूदनस्य पुरोनिहितमन्यथा शङ्कमानाः, गणयन्तः पक्षपातं गरुडध्वजस्य, चिन्तयन्तश्चिन्तामणिप्रदानं वैषम्यकारणम्, आलोच्य परस्परम्, आसीदन्त इव सान्त्वनाय
[commentary]
देशः । अमृतं वर्षन्तीति तानि तथाभूतैः अत एव आर्द्रैश्शीतलैः वचोभिरकिरत् व्याजहारेति तात्पर्यार्थः । स्वीकृतकन्यारत्नोपहारः को वा उपगन्तारं प्रति सानुरागं न भाषत इति भावः ॥ तदन्विति ॥ तदनु अनन्तरं सरस्वति समुद्रे । 'सरस्यान्सागरोऽर्णवः' इत्यमरः । आगतमागमनं अनतिक्रम्य यथागतम् । 'अव्ययं विभक्ति--' (२.१.६) इत्यादिनांऽव्ययीभावसमासः । गते प्रयाते सति सरस्वतीरमणो ब्रह्मा शतमन्युरिन्द्रः तावेव मुखे प्रभृती येषां ते तथाभूता बर्हिर्मुखा देवाः । 'बर्हिर्मुखाः क्रतुभुजः' इत्यमरः । परमेश्वरस्य शिवस्य । 'शिवश्शूली महेश्वरः' इत्यमरः । निदेशं 'मदाज्ञामस्याज्ञाम्' इत्यादिना पूर्वोक्तामाज्ञामित्यर्थः । प्रतीक्षमाणाः परिपालयन्तस्सन्तः केशवं श्रीहरिं परिवार्य आवृत्य अवतस्थिरे ऊषुरित्यर्थः । अथ रक्षसां वृत्तान्तं वर्णयति ॥ दानवा इति ॥ मध्ये देवासुराणामिति शेषः । निधातव्यं निधातुं योग्यं अमृतकलशं मधुसूदनस्य श्रीहरेः अग्रे पुरोभागे निहितं निक्षिप्तमिति अन्यथा प्रकारान्तरमाशङ्कमानाः सन्दिहानाः अमृतमुभयेभ्यो देयात् अथ अस्मान् प्रतार्य तेभ्य एव देयादिति संशयं प्राप्ता इति भावः । गरुडध्वजस्य श्रीहरेः, देवेष्विति शेषः । पक्षपातं अभिमानं गणयन्तः आख्यान्त इत्यर्थः । वासवस्य इन्द्रस्य सामाजिकानां सभासदां मध्य इत्यर्थः । 'सभ्यास्सामाजिकाश्च ते' इत्यमरः । चिन्तामणिप्रदानं चिन्तामणेः दापनमिति भावः । वैषम्यं तरतमभावः तस्य कारणं निमित्तं चिन्तयन्तः जानन्त इत्यर्थः । परस्परमालोच्य सान्त्वनायेव श्रमापनोदनायेवेत्यर्थः । सुधाकलशशं परिवृत्य आसीदन्तः तिष्ठन्तः सुधाकलशं परिवृत्य स्थितवन्त इति भावः । दानवाः असुरास्तु । अत्र तुशब्द एवकारार्थः । प्रहरणान्यायुधानि । 'आयुधं तु प्रहरणम्' इत्यमरः । परिगृह्णन्तः धरन्त इत्यर्थः । युद्धार्थमिति भावः । स्वेषां बान्धवाः स्वजनाः तान् । 'सगोत्रबान्धवज्ञातिबन्धुस्व-
अकिरदमृतवर्षैरेनमार्द्रैर्वचोभिः ॥ ३१ ॥
तदनु यथागतं गते सरस्वति, सरस्वतीरमणशतमन्युमुखाः बहिर्मुखाः प्रतीक्षमाणा निदेशं परमेश्वरस्य परिवार्य केशवमवतस्थिरे । दानवास्तु मध्ये निधातव्यममृतकलशं मधुसूदनस्य पुरोनिहितमन्यथा शङ्कमानाः, गणयन्तः पक्षपातं गरुडध्वजस्य, चिन्तयन्तश्चिन्तामणिप्रदानं वैषम्यकारणम्, आलोच्य परस्परम्, आसीदन्त इव सान्त्वनाय
[commentary]
देशः । अमृतं वर्षन्तीति तानि तथाभूतैः अत एव आर्द्रैश्शीतलैः वचोभिरकिरत् व्याजहारेति तात्पर्यार्थः । स्वीकृतकन्यारत्नोपहारः को वा उपगन्तारं प्रति सानुरागं न भाषत इति भावः ॥ तदन्विति ॥ तदनु अनन्तरं सरस्वति समुद्रे । 'सरस्यान्सागरोऽर्णवः' इत्यमरः । आगतमागमनं अनतिक्रम्य यथागतम् । 'अव्ययं विभक्ति--' (२.१.६) इत्यादिनांऽव्ययीभावसमासः । गते प्रयाते सति सरस्वतीरमणो ब्रह्मा शतमन्युरिन्द्रः तावेव मुखे प्रभृती येषां ते तथाभूता बर्हिर्मुखा देवाः । 'बर्हिर्मुखाः क्रतुभुजः' इत्यमरः । परमेश्वरस्य शिवस्य । 'शिवश्शूली महेश्वरः' इत्यमरः । निदेशं 'मदाज्ञामस्याज्ञाम्' इत्यादिना पूर्वोक्तामाज्ञामित्यर्थः । प्रतीक्षमाणाः परिपालयन्तस्सन्तः केशवं श्रीहरिं परिवार्य आवृत्य अवतस्थिरे ऊषुरित्यर्थः । अथ रक्षसां वृत्तान्तं वर्णयति ॥ दानवा इति ॥ मध्ये देवासुराणामिति शेषः । निधातव्यं निधातुं योग्यं अमृतकलशं मधुसूदनस्य श्रीहरेः अग्रे पुरोभागे निहितं निक्षिप्तमिति अन्यथा प्रकारान्तरमाशङ्कमानाः सन्दिहानाः अमृतमुभयेभ्यो देयात् अथ अस्मान् प्रतार्य तेभ्य एव देयादिति संशयं प्राप्ता इति भावः । गरुडध्वजस्य श्रीहरेः, देवेष्विति शेषः । पक्षपातं अभिमानं गणयन्तः आख्यान्त इत्यर्थः । वासवस्य इन्द्रस्य सामाजिकानां सभासदां मध्य इत्यर्थः । 'सभ्यास्सामाजिकाश्च ते' इत्यमरः । चिन्तामणिप्रदानं चिन्तामणेः दापनमिति भावः । वैषम्यं तरतमभावः तस्य कारणं निमित्तं चिन्तयन्तः जानन्त इत्यर्थः । परस्परमालोच्य सान्त्वनायेव श्रमापनोदनायेवेत्यर्थः । सुधाकल