This page has been fully proofread once and needs a second look.

पञ्चमाश्वांसः
 
सकरुणमनुगृहन्ंह्णन् सानुरागैरपाङ्गैः

अकिरदमृतवर्षैरेनमार्नैद्रैर्वचोभिः ॥ ३१ ॥
 

 
तदनु यथागतं गते सरस्वति, सरस्वतीरमणशतमन्युमुखाः
बहिर्मुखाः प्रतीक्षमाणा निदेशं परमेश्वरस्य परिवार्य केशवमवतस्थिरे ।
दानवास्तु मध्ये निधातव्यममृतकलशं मधुसूदनस्य पुरोनिहितमन्यथा
शङ्कमानाः, गणयन्तः पक्षपातं गरुडध्वजस्य, चिन्तयन्तश्चिन्तामणि-
प्रदानं वैषम्यकारणम्, आलोच्य परस्परम्, आसीदन्त इव सान्त्वनाय

 
[commentary]
 
देशः । अमृतं वर्षन्तीति तानि तथाभूतैः अत एव आर्द्रेरैश्शीतलै:लैः वचोभिरकिरत्
व्याजहारेति तात्पर्यार्थः । स्वीकृतकन्यारत्नोपहार :रः को वा उपगन्तारं प्रति सानुरागं
न भाषत इति भावः ॥ तदन्विति ॥ तदनु अनन्तरं सरस्वति समुद्रे । 'सरस्यान्
सागरोऽर्णवः' इत्यमरः । आगतमागमनं अनतिक्रम्य यथागतम् । 'अव्ययं
विभक्ति--' (2-1-6२.१.६) इत्यादिनांऽव्ययीभावसमासः । गते प्रयाते सति सरस्वती -
रमणो ब्रह्मा शतमन्युरिन्द्रः तावेव मुखे प्रभृती येषां ते तथाभूता बर्हिर्मुखा देवाः ।
'बर्हिर्मुखा: कखाः क्रतुभुजः' इत्यमरः । परमेश्वरस्य शिवस्य । 'शिवश्शूली महेश्वरः'
इत्यमरः । निदेशं 'मदाज्ञामस्याज्ञाम्' इत्यादिना पूर्वोक्तामाज्ञामित्यर्थः । प्रतीक्ष-
माणा:
माणाः परिपालयन्तस्सन्तः केशवं श्रीहरिं परिवार्य आवृत्य अवतस्थिरे ऊषुरित्यर्थः ।
अथ रक्षसां वृत्तान्तं वर्णयति ॥ दानवा इति ॥ मध्ये देवासुराणामिति शेषः ।
निघाधातव्यं निधातुं योग्यं अमृतकलशं मधुसूदनस्य श्रीहरेः अग्रे पुरोभागे निहितं
निक्षिप्तमिति अन्यथा प्रकारान्त रमाशङ्कमानाः सन्दिहाना:नाः अमृतमुभयेभ्यो देयात्
 
f
 
अथ अस्मान् प्रतार्य तेभ्य एव देयादिति संशयं प्राप्ता इति भावः । गरुडध्व-
जस्य श्रीहरेः, देवेष्विति शेष:षः । पक्षपातं अभिमानं गणयन्तः आख्यान्त इत्यर्थः ।
वासवस्य इन्द्रस्य सामाजिकानां सभासदां मध्य इत्यर्थ:थः । 'सभ्यास्सामाजिकाश्च ते'
इत्यमरः । चिन्तामणिप्रदानं चिन्तामणे:णेः दापन मिति भावः । वैषम्यं तरतमभावः
तस्य कारणं निर्मित्तं चिन्तयन्तः जानन्त इत्यर्थः । परस्परमालोच्य सान्त्वना येव
श्रमापनोदनायेवेत्यर्थः । सुधाकलश परिवृत्य आसीदन्तः तिष्ठन्तः सुधाकलशं
परिवृत्य स्थितवन्तु इति भावः । दानवाः असुरास्तु । अत्र तुशब्द एवकारार्थः ।
प्रहरणान्यायुधानि । 'आयुधं तु प्रहरणम्' इत्यमरः । परिगृह्णन्तः रन्त इत्यर्थः ।
युद्धार्थमिति भावः । स्वेषां बान्धवाः स्वजनाः तान् । 'सगोत्रबान्धवज्ञातिबृन्धुस्व-
A
 
N - 46