2023-08-29 06:13:40 by Bharadwajraki
This page has been fully proofread twice.
अपि च ।
'गामश्वं करिणं मणिं हिमकरं कन्यास्तरूनद्भुतान्
अन्नं चामृतमन्ततस्त्रिजगतीजीवातुमेतां सुताम् ।
प्राणाचार्यममुं च ते चरणयोः प्राणैरसमं विन्यसन्
स्वामिन् कामपि ते प्रसादकणिकां याचे दया चेन्मयि ॥' [३०] ॥
वदति मधुरमित्थं वल्लभे वाहिनीनां
जनयितरि [^१]रमाया जातहर्षो मुकुन्दः ।
[commentary]
स्वामिभिरित्यर्थः । 'कदर्ये कृपणक्षुद्रकिंपचानमितम्पचाः' इत्यमरः । जनैः उपदातव्यं देयं वस्तु किं न किमपीति भावः । हे स्वामिन् तदपि तथापि तत्त्वं त्वत्स्वरूपम् । 'तत्त्वं विलम्बमानेऽपि स्वरूपे परमात्मनि' इति भास्करः । तस्य निवेदनात् परिज्ञानात् अस्मासु विषये दयसे अनुगृह्णासि, पासीति वाऽर्थः । 'दय दानगतिरक्षणहिंसाऽऽदानेषु' इति धातोर्लङ्रूपमेतत् । 'प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः' (गीता ७-१७) इति शास्त्रादिति भावः ॥ अपि चेति ॥ गां कामधेनुं अश्वमुच्चैःश्रवसं करिणमैरावतं मणिं चिन्तामणिं कौस्तुभमाणिक्ये । मणी इति द्विवचनान्तस्सुपाठः । हिमकरं चन्द्रं कन्याः रम्भाद्यप्सरसः अद्भुतानाश्चर्यकरान् तरून् पारिजातादिवृक्षान् अन्नं अदनीयममृतम्, सुधामित्यर्थः । त्रिजगतीनां जीवातुं जीवनहेतुं एतां त्वदुरसि परिदृश्यमानां सुतां मत्पुत्रीं महालक्ष्मीं प्राणानामाचार्यः प्रतिष्ठापनाचार्यः तथाभूतं अमुं धन्वन्तरिं च प्राणैस्समं मत्प्राणैस्सह ते तव चरणयोर्विन्यसन् समर्पयन् अहमिति शेषः । मयि कृपा दया अस्ति चेत् कामपि प्रसादकणिकामनुग्रहलेशं याचे प्रार्थयामीत्यर्थः ॥ वदतीति ॥ रमाया जनयितरि पितरे वाहिनीवल्लभे नदीभर्तरि समुद्रे । 'सेनानद्योस्ते वाहिनी' इत्यमरः । इत्थमुक्तप्रकारं मधुरं मनोहरं यथा तथा वदति विज्ञापयति सति जातः समुत्पन्नः हर्ष आनन्दो यस्य स तथाभूतः मुकुन्दो नारायणः सानुरागैः प्रेमसहितैः अपाङ्गैः कटाक्षैरनुगृह्णन् प्रसादं कुर्वन् सन् एनं समुद्रं प्रति । 'द्वितीयाटौस्स्वेनः' (२.४.३४) इति एना-
[^१] सर्वस्वं कन्यार्पिता जामात्रे दद्यादित्यपि कवेरेवं वंदतः आशयः ।