This page has been fully proofread once and needs a second look.

नीलकण्ठविजये संव्याख्याने
 
अपि च ।
 

 
'
गामश्वं करिण मणिणं मणिं हिमकरं कन्यास्तरूनद्भुतान्

अन्नं चामृतमन्तत स्त्रिजगतीजीवातुमेतां सुताम् ।

प्राणाचार्यममुं च ते चरणयोः प्राणैरसमं विन्यसन्

स्वामिन् कामपि ते प्रसादकणिकाकां याचे दया चेन्मयि ॥ '
 
>
 
' [३०]
 

 
वदति मधुरमित्थं वल्लभे वाहिनीनां

जनयितरि '[^१]रमाया जातहर्षो मुकुन्दः ।
 

 
[commentary]
 
स्वामिभिरित्यर्थः । 'कदर्ये कृपणक्षुद्रकिंपचानमितम्पचाः' इत्यमरः । जनैः उप
दातव्यं देयं वस्तु किं न किमपीति भावः । हे स्वामिन् तदपि तथापि तत्त्वं
त्वत्स्वरूपम् । 'तत्त्वं विलम्बमानेऽपि स्वरूपे परमात्मनि' इति भास्करः । तस्य
निवेदनात् परिज्ञानात् अस्मासु विषये दयसे अनुगृह्णासि, पासीति वाऽर्थः ।
'दय दानगतिरक्षणहिंसाऽऽदानेषु' इति धातोर्लङ्रूपमेतत् । 'प्रियो हि
ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: यः' (गीता 7-17 १७) इति शास्त्रादिति भावः ॥
अपि चेति ॥ गां कामधेनुनुं अश्वमुच्चैःश्रवसं करिणमैरावत मणितं मणिं चिन्तामणि
 
णिं कौस्तुभमाणिक्ये । मणी इति
 
द्विवचनान्तस्सुपाठः । हिमकरं चन्द्रं कन्याः
रम्भाद्यप्सरसः अद्भुतानाश्चर्यकरान् तरून् पारिजातादिवृक्षान् अन्नं अदनी -
यममृतम् ; ·, सुधामित्यर्थः । त्रिजगतीनां जीवातुं जीवनहेतुतुं एतां त्वदुरसि
परिदृश्यमानां सुतां मत्पुत्रीं महालक्ष्मीमीं प्राणानामाचार्यः प्रतिष्ठापनाचार्य:
यः तथाभूतं अनुंमुं धन्वन्तरिं च प्राणैस्समं मत्प्राणैस्सह ते तव चरणयोर्विन्यसन् सम-
र्पयन् अहमिति शेषः । मयि कृपा दया अस्ति चेत् कामपि प्रसादकणिकाम-
नुग्रहलेशं याचे प्रार्थयामीत्यर्थः ॥ वदतीति रमाया जनयितरि पितरे वाहि-
नीं
नीवल्लभे नदीभर्तरि समुद्रे । 'सेनानधोद्योस्ते वाहिनी' इत्यमरः । इत्थमुक्तप्रकारं
मधुर-रं मनोहरं यथा तथा वदति विज्ञापयति सति जातः समुत्पन्न:नः हर्ष आनन्दो
यस्य स तथाभूतः मुकुन्दो नारायणः सानुरागैः प्रेमसहितैः अपाङ्गैः कटाक्षैरनुगृह्ण
न् प्रसादं कुर्वन् सन् एनं समुद्रं प्रति । 'द्वितीयाटौ स्स्वेन:नः' (2-4-34२.४.३४) इति एना-
1.

 
[^१]
सर्वस्वं कन्यार्पिता जामात्रे दद्यादित्यपि कवेरेवं वंदतः आशयः ।