2023-06-05 16:40:47 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये संव्याख्याने
अपि च ।
गामश्वं करिण मणि हिमकरं कन्यास्तरूनद्भुतान्
अन्नं चामृतमन्तत स्त्रिजगतीजीवातुमेतां सुताम् ।
प्राणाचार्यममुं च ते चरणयोः प्राणैरसमं विन्यसन्
स्वामिन् कामपि ते प्रसादकणिका याचे दया चेन्मयि ॥ '
>
[३०]।
वदति मधुरमित्य वल्लभे वाहिनीनां
जनयितरि 'रमाया जातहर्षो मुकुन्दः ।
स्वामिभिरित्यर्थः । 'कदर्ये कृपणक्षुदकिंपचानमितम्पचाः' इत्यमरः । जनैः उप
दातव्यं देयं वस्तु किं न किमपीति भावः । हे स्वामिन् तदपि तथापि तत्त्वं
त्वत्स्वरूपम् । 'तत्त्वं विलम्बमानेऽपि स्वरूपे परमात्मनि' इति भास्करः । तस्य
निवेदनात् परिज्ञानात् अस्मासु विषये दयसे अनुगृह्णासि, पासीति वाऽर्थः ।
'दय दानगतिरक्षणहिंसाऽऽदानेषु' इति धातोर्लरूपमेतत् । 'प्रियो हि
ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: ' (गीता 7-17 ) इति शास्त्रादिति भावः ॥
अपि चेति ॥ गां कामधेनु अश्वमुच्चैःश्रवसं करिणमैरावत मणि चिन्तामणि
कौस्तुभमाणिक्ये । मणी इति
द्विवचनान्तस्सुपाठः । हिमकरं चन्द्रं कन्याः
रम्भायप्सरसः अद्भुतानाश्चर्यकरान् तरून् पारिजातादिवृक्षान् अन्नं अदनी -
यममृतम् ; · सुधामित्यर्थः । त्रिजगतीनां जीवातुं जीवनहेतु एतां त्वदुरसि
परिदृश्यमानां सुतां मत्पुत्रीं महालक्ष्मी प्राणानामाचार्यः प्रतिष्ठापनाचार्य:
तथाभूतं अनुं धन्वन्तरिं च प्राणैस्समं मत्प्राणैस्सह ते तव चरणयोर्विन्यसन् सम-
र्पयन् अहमिति शेषः । मयि कृपा दया अस्ति चेत् कामपि प्रसादकणिकाम-
नुग्रहलेशं याचे प्रार्थयामीत्यर्थः ॥ वदतीति । रमाया जनयितरि पितरे वाहि-
नींवल्लभे नदीभर्तरि समुद्रे । 'सेनानधोस्ते वाहिनी' इत्यमरः । इत्थमुक्तप्रकारं
मधुर- मनोहरं यथा तथा वदति विज्ञापयति सति जातः समुत्पन्न: हर्ष आनन्दो
यस्य स तथाभूतः मुकुन्दो नारायणः सानुरागैः प्रेमसहितैः अपाङ्गैः कटाक्षैरनुगृह्णन
प्रसादं कुर्वन् सन् एनं समुद्रं प्रति । 'द्वितीयाटौ स्स्वेन:' (2-4-34) इति एना-
1. सर्वस्वं कन्यार्पिता जामात्रे दद्यादित्यपि कवेरेवं वंदतः आशयः ।