2023-08-29 06:00:17 by Bharadwajraki
This page has been fully proofread twice.
जगदनुजिघृक्षागृहीतेन जनार्दनस्यैवं मूर्तिभेदेन भगवता धन्वन्तरिणा[^१] सममाविर्भूय भूयसा भक्तिभारेण पुरुषोत्तमं प्रणिपत्य परिष्टुवन्नादाय तस्य करादमृतकलशमग्रे निवेदयन्निदमाचचक्षे ।
'त्वमसि परमं ब्रह्म त्वं नाथ सर्वजनान्तरः
तव किमवशे रम्यं वस्तु स्थलेषु जलेषु वा ।
तव किमुपदातव्यं लक्ष्मीपते कृपणैर्जनैः
तदपि दयसे स्वामिन्नस्मासु तत्त्वनिवेदनात् ॥ २९ ॥
[commentary]
स्वगुणस्य च द्योतकं लक्षणमित्यर्थः । तेन अङ्कितः चिह्नितः, तथाभूतेन दिव्यानि उत्तमानि यानि औषधानि भेषजानि । 'भेषजौषधभैषज्यान्यगदो जायुरित्यपि' इत्यमरः । तैः परिवृतो युक्तः, तथाभूतेन । करौ कमले इव करकमले ताभ्यां गृहीतः विधृतो यः कनककुम्भस्सुवर्णमयकलशः तेन सम्भृतं धृतं यदमृतं तस्य यो गन्धः परिमलं तेन मन्थरः मेदुरः यः गन्धवहो वायुः तस्य स्पन्दमात्रमीषत्सञ्चारः तेन नियन्त्रिताः निगृहीताः जरा मरणञ्च अविद्यास्मितारागद्वेषाभिनिवेशलक्षणपञ्चक्लेशा एव पाशाश्चेति यस्य स तथाभूतेन । जगतां लोकानामनुग्रहीतुमिच्छा अनुजिघृक्षा तदर्थं गृहीतः स्वीकृतः तथाभूतेन जनार्दनस्य श्रीहरेर्मूर्तिभेदेन अवतारभेदेनेव स्थितेन भगवता षड्गुणैश्वर्यशालिना धन्वन्तरिणा सह आविर्भूय समागत्येत्यर्थः । भूयसा अधिकेन भक्तिभारेण अनुरागविशेषेणेत्यर्थः । 'पूज्येष्वनुरागो भक्तिः' इत्यभियुक्तवचनात् । पुरुषोत्तमं श्रीहरिं प्रणिपत्य नमस्कृत्य, परिष्टुवन् स्तुतिं कुर्वन्नित्यर्थः । तस्य धन्वन्तरेरित्यर्थः ।
कराद्धस्तात् । स्वयमिति शेषः । अमृतभरितः कलशः अमृतकलशः तमादाय गृहीत्वा अग्रे वासुदेवपुरोभागे निवेदयन् निक्षिप्य निर्दिशन्नित्यर्थः । इदं वचनमाचचक्षे जगादेत्यर्थः ॥ त्वमिति ॥ हे नाथ जगदधिपते त्वं परमं सर्वोत्कृष्टं ब्रह्मासि त्वं सर्वजनानां अन्तरः अन्तरात्मेत्यर्थः । 'अन्योऽन्तर आत्मानन्दमयः' इतिः श्रुतेः । स्थलेषु भूभागेषु, जलेषु रम्यं रमणीयं किं वस्तु कः पदार्थः अवशे अनधीने अस्वाधीनं सद्वर्तते । इहेदानीं लक्ष्मीपतेस्तव कृपणैः कदर्यैः कुत्सित-
[^१] उत्तममौषधमपि भिषजा दत्तं फलतीति दर्शयति "धन्वन्तरिणा (भिषग्वरेण) सममाविर्भूय" इति ब्रुवन् कविः ॥