This page has been fully proofread once and needs a second look.

पञ्चमाश्वासः
 
३५९
 
जगदनुजिघृक्षागृहीतेन जनार्दनस्यैवं मूर्तिभेदेन भगवता धन्वन्तरिणा'
[^१] सममाविर्भूय भूयसा भक्तिभारेण पुरुषोत्तमं प्रणिपत्य परिष्टुवन्नादाय
तस्य करादमृतकलशमग्रे निवेदयन्त्रिनिदमाचचक्षे ।
 

 
'त्वमसि परमं ब्रह्म त्वं नाथ सर्वजनान्तरः
 

तव किमवशे रम्यं वस्तु स्थलेषु जलेषु वा ।

तव किमुपदातव्यं लक्ष्मीपते कृपणैर्जनैः
 

तदपि दयसे स्वामिन्नस्मासु तत्त्वनिवेदनात् ॥ २९ ॥
 

 
[commentary]
 
स्वगुणस्य च द्योतकं लक्षणमित्यर्थः । तेन अति:ङ्कितः चिह्नितः, तथाभूतेन दिव्यानि
उत्तमानि यानि औषधानि भेषजानि । 'भेषजौषधभैषज्यान्यगदो जायुरित्यपि '
इत्यमरः । तैः परिवृतो युक्तः, तथाभूतेन । करौ कमले इव करकमले ताभ्यां
गृहीतः विधृतो यः कनककुम्भस्सुवर्णमयकलश:शः तेन सम्भृतं धृतं यदमृतं तस्य
यो गन्धः परिमलं तेन मन्थर:रः मेदुरः यः गन्धवहो वायुः तस्य स्पन्दमात्र-
मीषत्सञ्चार :रः तेन नियन्त्रिता:ताः निगृहीताः जरा मरणञ्च अविद्यास्मिताराग-
द्वेषाभिनिवेशलक्षणपञ्चक्लेशा एव पाशाश्चेति यस्य स तथाभूतेन । जगतां लोका-
नामनुग्रहीतुमिच्छा अनुजिघृक्षा तदर्थं गृहीतः स्वीकृतः तथाभूतेन जनार्दनस्य
श्रीहरेर्मूर्तिभेदेन अवतारभेदेनेव स्थितेन भगवता षड्गुणैश्वर्यशालिना धन्वन्त-
रिणा सह आविर्भूय समागत्येत्यर्थः । भूयसा अधिकेन भक्तिभारेण अनुराग-
विशेषेणेत्यर्थः । 'पूज्येष्वनुरागो भक्तिः' इत्यभियुक्तवचनात् । पुरुषोत्तमं श्रीहरिं
प्रणिपत्य नमस्कृत्य, परिष्टुवन् स्तुतिं कुर्वन्नित्यर्थः । तस्य धन्वन्तरेरित्यर्थः ।

कराद्धस्तात् । स्वयमिति शेषः । अमृतभरितः कलश:शः अमृतकलश:शः तमादाय
गृहीत्वा अग्रे वासुदेवपुरोभागे निवेदयन् निक्षिप्य निर्दिशन्नित्यर्थः । इदं वचन-
माचचक्षे जगादेत्यर्थः ॥ त्वमिति ॥ हे नाथ जगदधिपते त्वं परमं सर्वोत्कृष्
टं ब्रह्मासि त्वं सर्वजनानां अन्तरः अन्तरात्मेत्यर्थः । 'अन्योऽन्तर आत्मानन्दमय: यः'
इतिः श्रुतेः । स्थलेषु भूभागेषु, जलेषु रम्यं रमणीयं किं वस्तु कः पदार्थ:थः अवशे
अनधीने अस्वाघीनधीनं सद्वर्तते । इहेदानीं लक्ष्मीपतेस्तव कृपणैः कदर्यैः कुत्सित-
1.

 
[^१]
उत्तम मौषधमपि भिषजा दत्तं फलतीति दर्शयति "धन्वन्तरिणा (भिषग्वरेण )
सममाविर्भूय " इति ब्रुवन् कविः ॥