This page has been fully proofread twice.

अथ मथनविषण्णदेवासुरस्तोमजीवातुभिः
श्रमशिथिलितबन्धवातन्धयप्राणनाडिन्धमैः
शिशिरितहृदया दयासारतुङ्गैरपाङ्गैश्श्रियः
पुनरपि जलराशिमक्षोभयन् देवरक्षोभटाः ॥ २८ ॥
 
ततः सन्ततसन्तन्यमानमन्थननिर्बन्धनिर्विण्ण इव, सर्वस्वहरणसमुत्पन्नवैराग्य इव, तनयावियोगतरळान्तःकरण इव, वरुणालयः त्रिजगदगदङ्कारबिरुदाङ्कितेन दिव्यौषधिपरिवृतेन करकमलगृहीतकनककुम्भसंभृतामृतगन्ध[^१]मन्थरगन्धवहस्पन्दमात्रनियन्त्रित जरामरणक्लेशपाशेन-
 
[commentary]
 
'समवप्रविभ्यः स्थः' (१.३.२२) इत्यात्मनेपदम् ॥ अथेति ॥ अथानन्तरं मथनेन विषण्णाः दुःखिता ये देवासुराः तेषां स्तोमः समूहः तस्य जीवातुभिर्जीवनौषधैरित्यर्थः । 'जीवातुर्जीवनौषधम्' इत्यमरः । श्रमेण शिथिलितः शिथिलीकृतः, भोगः कायो यस्य स तथाभूतः यः वातं पवनं धयति पिबतीति वातन्धयः सर्पो वासुकिः, तस्य ये प्राणाः, तेषां नाडिन्धमाः स्वर्णकाराः । 'नाडिन्धमः स्वर्णकारः' इत्यमरः । 'कलादो रुक्मकारकः' इति च । तथाभूतैः व्यत्यस्तप्राणशरीरयोस्समीकरणान्नाडिन्धमसाम्यमिति भावः । दयायास्सारः स्थिरांशः तेन पुष्टैः परिपुष्टैः, श्रियः श्रीदेव्याः, अपाङ्गैः कटाक्षैः, शिशिरितानि शीतलीकृतानि हृदयानि येषां ते तथाभूतास्सन्तः । देवरक्षांस्येव भटाः देवासुरा इत्यर्थः । पुनरपि जलराशिं अक्षोभयन् ममन्थुरित्यर्थः ॥ तत इति ॥ ततः पुनर्मथनानन्तरं सन्ततं सन्तन्यमानं बहुलीक्रियमाणं यन्मथनं तदेव निर्बन्धः निरोधः तस्मान्निर्विष्ण इव दुःखित इव । सर्वाणि यानि स्वानि धनानि । 'स्वोऽस्त्रियां धने' इत्यमरः । तेषां हरणं ग्रहणं तस्मादेव समुत्पन्नमाविर्भूतं वैराग्यं विरागः यस्य स तथाभूत इव तनयया पुत्र्या महालक्ष्म्या यो वियोगः भर्तृगृहप्रेषणलक्षणो विरह इत्यर्थः । तेन तरळमनवस्थितं अन्तःकरणं यस्य स तथाभूत इव वरुणालयस्समुद्रः । त्रयाणां जगतां समाहारस्त्रिजगत् तस्य अगदङ्कारो वैद्यः ।
'रोगहार्यगदङ्कारः' इत्यमरः । त्रिजगदगदङ्कार इति यद्बिरुदं इतरवैलक्षण्यस्य
 
[^१] अमृतस्य गन्धमात्रमपि जरामरणक्लेशापहम् । अतएव "अमृतं दृष्ट्वा सृप्यन्ति" इति प्रसिद्धिः ।