This page has been fully proofread once and needs a second look.

नीलकण्ठ विजये सव्याख्याने
अथ मथन विषण्ण देवासुरस्तोमजीवातुभिः

श्रम शिथिलित
बन्धवातन्धयप्राणनाडिन्धमैः

शिशिरितहृदया दयासारतुङ्गैरपाङ्गै रिश्श्रियः
 

 

पुनरपि जलराशिमक्षोभयन् देवरक्षोभटाः ॥ २८ ॥
 

 
ततः सन्तत सन्तन्यमान मन्थननिर्बन्धनिर्विष्ण्ण इव, सर्वस्वहरण-
समुत्पन्न वैराग्य इव, तनया वियोगतरळान्तःकरण इव, वरुणालयः त्रिज
गद्
गदगदङ्कारबिरुदाङ्कितेन दिव्यौषधिपरिवृतेन करकमलगृहीतकनककुम्भ-
संभृतामृतगुन्ध गन्ध[^१]मन्थरगन्धवहस्पन्द मात्र नियन्त्रित जरामरणक्लेशपाशेन -

 
[commentary]
 
'समवप्रविभ्यः स्थः' (1-3-22१.३.२२) इत्यात्मनेपदम् ॥ अथेति ॥ अथानन्तरं मथनेन
विषण्णाः दुःखिता ये देवासुराः तेषां स्तोमः समूह:हः तस्य जीवातु-
भिर्जीवनौषधैरित्यर्थः । 'जीवातुर्जीवनौषधम्' इत्यमरः । श्रमेण शिथिलि -
तः शिथिलीकृतः, भोगः कायो यस्य स तथाभूतः यः वातं पवनं धयति पिब-
तीतिं वातन्ध्ति वातन्धयः सर्पोंपो वासुकिः, तस्य ये प्राणाः, तेषां नाडिन्धमा:माः स्वर्णकाराः ।
'नाडिन्धम:मः स्वर्णकारः' इत्यमरः । 'कलादो रुक्मकारकः' इति च । तथाभूतैः
व्यत्यस्तप्राणशरीरयोस्समीकरणान्नाडिन्धमसाम्यमिति भावः । दयायास्सार स्थि-
रांश:शः तेन पुष्टैः परिपुष्टैः, श्रियः श्रीदेव्याः, अपाङ्गैः कटाक्षैः, शिशिरितानि शीत-
लीकृतानि हृदयानि येषां ते तथाभूतास्सन्तः । देवरक्षांस्येव भटा:टाः देवासुरा
इत्यर्थः । पुनरपि जलराशिशिं अक्षोभयन् ममन्थुरित्यर्थः ॥ तत इति ॥ ततः पुन-
र्मथनानन्तरं सन्ततं सन्तन्यमानं बहुलीक्रियमाणं यन्मथनं तदेव निर्बन्धः निरोधः
तस्मान्निर्विष्ण॑ इव दुःखित इव । सर्वाणि यानि स्वानि धनानि । 'स्वोऽस्त्रियां ने '
इत्यमरः । तेषां हरणं ग्रहणं तस्मादेव समुत्पन्नमाविर्भूतं वैराग्यं विरागः
यस्य स तथाभूत इव तनयया पुत्र्यांया महालक्ष्म्या यो वियोग:गः भर्तृगृहप्रेषण -
लक्षणोंणो विरह इत्यर्थः । तेन तरळमनवस्थितं अन्तःकरणं यस्य स तथाभूत इव
वरुणालयस्समुद्रः । त्रयाणां जगतां समाहारस्त्रिजगत् तस्य अगदङ्कारो वैद्यः ।

'रोगहार्यगदङ्कारः' 'इत्यमरः । त्रिजगदगदङ्कार इति यद्बिरुदंगदकार इति यदि इतरवैलक्षण्यस्य
 

 
[^१] अमृतस्य गन्धमात्रमपि
जरामरणक्लेशापहम् । अतएव "अमृतं दृष्ट्वा
 
1 अमृतस्य गन्धमातमपि
सु
सृप्यन्ति" इति प्रसिद्धिः ।
 
P