2023-06-05 16:40:46 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठ विजये सव्याख्याने
अथ मथन विषण्ण देवासुरस्तोमजीवातुभिः
श्रम शिथिलित
बन्धवातन्धयप्राणनाडिन्धमैः
शिशिरितहृदया दयासारतुङ्गैरपाङ्गै रिश्रयः
।
पुनरपि जलराशिमक्षोभयन् देवरक्षोभटाः ॥ २८ ॥
ततः सन्तत सन्तन्यमान मन्थननिर्बन्धनिर्विष्ण इव, सर्वस्वहरण-
समुत्पन्न वैराग्य इव, तनया वियोगतरळान्तःकरण इव, वरुणालयः त्रिज
गद्गदङ्कारबिरुदाङ्कितेन दिव्यौषधिपरिवृतेन करकमलगृहीतकनककुम्भ-
संभृतामृतगुन्ध मन्थरगन्धवहस्पन्द मात्र नियन्त्रित जरामरणक्लेशपाशेन -
'समवप्रविभ्यः स्थः' (1-3-22) इत्यात्मनेपदम् ॥ अथेति ॥ अथानन्तरं मथनेन
विषण्णाः दुःखिता ये देवासुराः तेषां स्तोमः समूह: तस्य जीवातु-
भिर्जीवनौषधैरित्यर्थः । 'जीवातुर्जीवनौषधम्' इत्यमरः । श्रमेण शिथिलि -
तः शिथिलीकृतः, भोगः कायो यस्य स तथाभूतः यः वातं पवनं धयति पिब-
तीतिं वातन्ध्यः सर्पों वासुकिः, तस्य ये प्राणाः, तेषां नाडिन्धमा: स्वर्णकाराः ।
'नाडिन्धम: स्वर्णकारः' इत्यमरः । 'कलादो रुक्मकारकः' इति च । तथाभूतैः
व्यत्यस्तप्राणशरीरयोस्समीकरणान्नाडिन्धमसाम्यमिति भावः । दयायास्सार स्थि-
रांश: तेन पुष्टैः परिपुष्टैः, श्रियः श्रीदेव्याः, अपाङ्गैः कटाक्षैः, शिशिरितानि शीत-
लीकृतानि हृदयानि येषां ते तथाभूतास्सन्तः । देवरक्षांस्येव भटा: देवासुरा
इत्यर्थः । पुनरपि जलराशि अक्षोभयन् ममन्थुरित्यर्थः ॥ तत इति ॥ ततः पुन-
र्मथनानन्तरं सन्ततं सन्तन्यमानं बहुलीक्रियमाणं यन्मथनं तदेव निर्बन्धः निरोधः
तस्मान्निर्विष्ण॑ इव दुःखित इव । सर्वाणि यानि स्वानि धनानि । 'स्वोऽस्त्रियां घने '
इत्यमरः । तेषां हरणं ग्रहणं तस्मादेव समुत्पन्नमाविर्भूतं वैराग्यं विरागः
यस्य स तथाभूत इव तनयया पुत्र्यां महालक्ष्म्या यो वियोग: भर्तृगृहप्रेषण -
लक्षणों विरह इत्यर्थः । तेन तरळमनवस्थितं अन्तःकरणं यस्य स तथाभूत इव
वरुणालयस्समुद्रः । त्रयाणां जगतां समाहारस्त्रिजगत् तस्य अगदङ्कारो वैद्यः ।
'रोगहायगदङ्कारः' 'इत्यमरः । त्रिजगदंगदकार इति यदि इतरवैलक्षण्यस्य
जरामरणक्लेशापहम् । अतएव "अमृतं दृष्ट्वा
1 अमृतस्य गन्धमातमपि
सुप्यन्ति" इति प्रसिद्धिः ।
P