2023-08-29 05:28:13 by Bharadwajraki
This page has been fully proofread twice.
अपि च पुनरेवं वादिनि मघवति पतन्तीं पश्यन्ती प्रसादविमलां दृशं प्राणवल्लभुस्य, चिन्तानुरूपमेव [^१]तस्य, चिन्तामणिना तमाह्लादयामास ।
इत्थमियत्यपि चलति संविधाने, प्रव्यक्ते च पशोरपि पक्षपाते मघवति परमेश्वरस्य, मदान्धाः प्रकृत्यैव मायया च विशिष्य मोहिता महासुराः । किं गतमेतैरतिक्षुद्रैः किञ्चित्तु वयमनुवर्तमानाः क्षणमपहरिष्यामस्सुधामित्यन्तर्निहितेन छद्मना पद्मनाभमनुरुध्यावतस्थिरे ।
[commentary]
सर्वे वयं त्वत्पुत्रा इति भावः । चिरादापन्नः विपदं प्राप्तः । 'आपन्न आपत्प्राप्तः स्यात् ' इत्यमरः । तथाभूते प्रपन्नश्शरणागतः तथाभूते मयि विषये तत् परदेवताऽपचारलक्षणमागः क्षन्तव्यं सोढव्यमित्यर्थः । इति इत्थमाख्यान्तं विज्ञापयन्तं मघवन्तमिन्द्रं आदिजननी आदिमाता सा लक्ष्मीः दृष्ट्या अवलोकनेन । 'दृष्टिर्ज्ञानेऽक्ष्णि दर्शने' इत्यमरः । दयामास अनुजग्राह । 'दय आदाने' इति धातोः 'दयायासश्च' (३.१.३७) इत्याम् । 'कास्प्रत्ययादाममन्त्रे लिटि' (३.१.३५) इत्यसधातोरनुप्रयोगः ॥ पुनरिति ॥ एवं वादिनि अभिदधाने मघवति देवेन्द्रे सति [?] पतन्तीं प्रसरन्तीं प्रसादोऽनुग्रहः तेन विमलां निर्मलशीतलां प्राणवल्लभस्य प्राणदयितस्य श्रीहरेः दृशं पश्यन्ती सा लक्ष्मीः तच्चिन्तायाः स्मृतेरनुरूपमनुगुणम् । 'स्याच्चिन्ता स्मृतिराध्यानम्' इत्यमरः । चिन्तामणिना तमिन्द्रमाह्लादयामास तोषयामासेत्यर्थः ॥ इत्थमिति ॥ इयति एतावत्यपि संविधाने सन्दर्भे चलति सति परमेश्वरस्य श्रीहरेः
मघवति देवेन्द्रे विषये पक्षपाते अभिमाने पशोर्मूढस्यापि प्रव्यक्ते विस्पष्टे सति प्रकृत्यैव स्वभावेनैव मदान्धाः मत्ताः विशिष्य मायया च विमोहिताः महासुराः ॥ किं गतमिति ॥ अतिक्षुद्रैः अतिजघन्यैरिति तात्पर्यार्थः । एतैरिन्द्राय वितीर्णैः वस्तुभिरित्यर्थः । किं गतं नः किमपगतमित्यर्थः । वयं किञ्चित्
क्षणमनुवर्तमानाः अनुसरन्तः सुधामपहरिष्यामः इति इत्थं अन्तः, निहितेन विन्यस्तेन, छद्मना कैतवेन । 'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः । पद्मनाभं श्रीहरिं, अनुरुध्य अनुसृत्य, अवतस्थिरे स्थितवन्त इत्यर्थः ।
[^१] "चिन्तानुरूपमेव तस्य" -- इति वर्णयन् कविः साध्व्याः पतीङ्गितज्ञानेन अनुष्ठानमेव सर्वत्रेति दर्शयति ।