This page has been fully proofread once and needs a second look.

पंचमावासः
 
अपि च पुनरेवं वादिनि मघवति पतन्तीं पश्यन्ती प्रसादविमलां
दृशं प्राणवल्लभुस्य, चिन्तानुरूपमेव [^१]तस्य, चिन्तामणिना तमाहा-
ह्लादयामास ।
 

 
इत्थमियत्यपि चलति संविधाने, प्रत्व्यक्ते च पशोरपि पक्षपाते
मघवति परमेश्वरस्य, मदान्धाः प्रकृत्यैव मायया च विशिष्य मोहिता
महासुराः । किं गतमेतैरतिक्षुद्रैः किञ्चित्तु वय मनुवर्तमानाः क्षणमपहरि -
प्
ष्यामस्सुधामित्यन्तर्निहितेन छद्मना पद्मनाभमनुरुध्यावतस्थिरे ।
 
है,
 

 
[commentary]
 
सर्वे वयं त्वत्पुत्रा इति भावः । चिरादापन्नः विपदं प्राप्तः । 'आपन्न आपत्प्राप्तः
स्यात् ' इत्यमरः । तथाभूते प्रपन्नश्शरणागतः तथाभूते मयि विषये तत् पर -
देवताऽपचारलक्षणमाग:गः क्षन्तव्यं सोढव्यमित्यर्थः । इति इत्थमाख्यान्तं विज्ञापयन्तं
मघवन्तमिन्द्रं आदिजननी आदिमाता सा लक्ष्मीमीः दृष्ट्या अवलोकनेन । 'दृष्टिर्ज्ञा-
नेऽक्षिणष्णि दर्शने!' इत्यमरः । दयामास अनुजग्राह । 'दय आदाने' इति धातोः
'दयायासश्च' (3-1-37३.१.३७) इत्याम् । 'कास्प्रत्ययादाममन्त्रे लिटि' (3-1-35३.१.३५) इत्य-
संघा
सधातोरनुप्रयोगः ॥ पुनरिति ॥ एवं वादिनि अभिदधाने मघवति देवेन्द्रे सति [?]
पतन्तीं प्रसरन्तीं प्रसादोऽनुग्रहः तेन विमलां निर्मलशीतलां प्राणवल्लभस्य प्राणदयितस्य
श्रीहरे:रेः दृशं पश्यन्ती सा लक्ष्मीः तच्चिन्तायाः स्मृतेरनुरूपमनुगुणम् । 'स्याच्चिन्ता
स्मृतिराध्यानम्' इत्यमरः । चिन्तामणिना तमिन्द्रमाह्लादयामास तोषयामासेत्यर्थः
इत्थमिति ॥ इयति एतावत्यपि संविधाने सन्दर्भे चलति सति परमेश्वरस्य श्रीहरेः

मघवति देवेन्द्रे विषये पक्षपाते अभिमाने पशोर्मूढस्यापि प्रव्यक्ते विस्पष्टे सति
प्रकृत्यैव स्वभावेनैव मदान्धाः मत्ताः विशिष्य मायया च विमोहिताः महासुराः
॥ किं. गतमिति ॥ अतिक्षुद्रैः अतिजघन्यैरिति तात्पर्यार्थः । एतैरिन्द्राय
वि॒ि
वितीर्णैः वस्तुभिरित्यर्थः । किं गतं नः किमपगतमित्यर्थः । वयं किञ्चित्

क्षणमुनुवर्तमाना:मनुवर्तमानाः अनुसरन्त:तः सुधामपहरिष्यामः इति इत्थं अन्तः, निहितेन
विन्यस्तेन, छद्मना कैतवेन । 'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे'
इत्यमरः । पद्मनाभं श्रीहरिं, अनुरुध्य अनुसृत्य, अवतस्थिरे स्थितवन्त इत्यर्थः ।
 
1:

 
[^१]
" चिन्तानुरूपमेव तस्य " -- इति वर्णयन् कविः साव्ध्याः पतीङ्गित ज्ञानेन
अनुष्ठानमेव सर्वत्रेति दर्शयति ।