2023-08-29 05:08:20 by Bharadwajraki
This page has been fully proofread twice.
सर्व लोकशरण्यस्य भगवतस्सरसिजेक्षणस्य वक्षोगतामालक्षयन् सर्वतो निर्वृतोऽस्मि ।
अज्ञानादतिलालनादपि च ते मातर्मया माद्यता
निर्माल्ये परदैवतस्य चलितं यत्किञ्चिदुच्छृङ्खलम् ।
तत्क्षन्त[^१]व्यमनन्यवेदिनि चिरापन्ने प्रपन्ने मयी-
त्याख्यान्तं मघवन्तमादिजननी दृष्ट्या दयामास सा ॥ २७ ॥
[commentary]
शत्रुभवनमेवाश्रित्य आसेदुषीमित्यस्य सम्प्राप्तामित्यर्थो वाच्य इति बोध्यम् । यामेव भवतीं त्वामित्यर्थः । महान् यः उरगः सर्पः तस्य फणागतां फणामाश्रितां प्रभां त्विषमिव समालक्ष्य दृष्ट्वा चकितचकितोऽत्यन्तभीतः अस्मि अभवमित्यर्थः । 'वर्तमानसामीप्ये वर्तमानवद्वा' (३.३.१३१) इति लडिति बोध्यम् ॥ तामिति ॥ तां भवतीमेव अखिललोकानां शरण्यः संरक्षणधुरीणः तथाभूतस्य भगवतः सरसिजेक्षणस्य पुण्डरीकाक्षस्य वक्षोगतां उरःस्थलगतां आलक्षयन् पश्यन्, अहं निर्वृतः सुखितोऽस्मि भवामीत्यर्थः ॥ अज्ञानादिति ॥ अज्ञानात् स्वरूपमाहात्म्यापरिज्ञानात् । अपि च, हे मातः ते तव च अतिलालनात् प्रेमातिशयकारणात् माद्यता मदभाजेत्यर्थः । मया इन्द्रेण, परदैवतस्य अम्बिकाया इत्यर्थः । निर्माल्ये धृतमालाविषये उच्छृङ्खलं निनिरोधं अमर्यादं यथा तथेति यावत् । किञ्चिदीषत् यच्चरितं यदपचरितमित्यर्थः । अपचारप्रकारश्च देवीभागवते 'दुर्वासाश्शङ्करस्यांशः चचार पृथिवीमिमाम् । स ददर्श स्रजं दिव्यां देव्या विद्याधरीकरे । तां ययाचे स्रंज देव्या विद्याधरवधूं मुनिः । याचिता मुनिना गीता मालां विद्याधराङ्गना ॥ ददौ तस्मै स्रजं देव्यास्सादरं प्रणिपत्य तम् । तामाधायात्मनो मूर्ध्नि स्रजं स मुनिसत्तमः ॥ त्रैलोक्याधिपतिं देवं संमुखेऽथ शचीपतिम् । दृष्ट्वैव शक्रं दुर्वासाः कृपाळुर्मुनिसत्तमः ॥ देव्याः स्रजं स्वशिरसस्सुगन्धोन्मत्तषट्पदाम् । आदाय हस्ताच्छक्राय चिक्षेपोन्मत्तवन्मुनिः ॥ सा गृहीता तु शक्रेण चक्षुषोर्नार्पिता पुरा । शिरसा न धृता भक्त्या नाघ्राता परदृष्टितः ॥ सावज्ञमेकहस्तेन स्रगैरावतमूर्धनि । न्यस्ता रराज कैलासशिखरे जाह्नवी यथा ॥' इत्यादिना । हे अन्यं परकीयं वेदितुं शीलं यस्यास्सा अन्यवेदिनी, सा न भवतीत्यनन्यवेदिनी तस्यास्सम्बुद्धिः ।
[^१] महालक्ष्मीं क्षमापयति ।