This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
सर्व लोकशरण्यस्य भगवतस्सरसिज़ेजेक्षणस्य वक्षोगतामालक्षयन् सर्वतो
निर्वृतोऽस्मि ।
 

 
अज्ञानाद तिलालनादपि च ते मातर्मया माद्यता
 
2
 

निर्माल्ये परदैवतस्य चलितं यत्किञ्चिदुच्छृङ्खलम् ।

तत्क्षन्त '[^१]व्यमनन्यवेदिनि चिरापन्ने प्रपन्ने मयी-

त्याख्यान्तं मघवन्तमादिजननी दृष्ट्या दयामास सा ॥ २७
 
टी
 
2
 
7.
 
."
 

 
[commentary]
 
शत्रुभवन मेवाश्रित्य आसेदुषीमित्यस्य सम्प्राप्तामित्यर्थो वाच्य इति बोध्यम् । यामेव
भवतीं त्वामित्यर्थः । महान् यः उरगः सर्पः तस्य फणागतां फणामाश्रितां प्रभां
त्विषमिव समालक्ष्य दृष्ट्वा चकितचकितोऽत्यन्तभीत:तः अस्मि अभवमित्यर्थ:थः । 'वर्त-
मानसामीप्ये वर्तमानवद्वा' ( 3-3-131३.३.१३१) इति लडिति बोध्यम् ॥ तामिति ॥ तां
भवतीमेव अखिललोकानां शरण्यः संरक्षणधुरीण:णः तथा भूतस्य भगवतः सरसिजे-
क्षणस्य पुण्डरीकाक्षस्य वृक्षोगतां उरःस्थलगतां आलक्षयन् पश्यन्, अहं निर्वृतः
सुखितोऽस्मि भवामीत्यर्थः ॥ अज्ञानादिति ॥ अज्ञानात् स्वरूपमाहात्म्यापरि-
ज्ञानात् । अपि च, हे मातः ते तव च अतिलालनात् प्रेमातिशयकारणात् माद्यता
मदभाजेत्यर्थः । मया इन्द्रेण, परदैवतस्य- अम्बिकाया इत्यर्थः । निर्माल्ये धृतमाला-
विषये उच्छृङ्खलं निनिरोधं अमर्यादं यथा तथेति यावत् । किञ्चिदीषत् यच्चरितं
यदप चरितमित्यर्थः । अपचारप्रकारश्च देवीभागवते 'दुर्वासाश्शङ्करस्यांश:
शः चचार पृथिवीमिमाम् । स ददर्श स्रजं - दिव्यां देव्या विद्याधरीकरे । तां ययाचे
सृ
स्रं- देव्या विद्याधरवधूं मुनिः । याचिता मुनिना गीता मालां विद्याधराङ्गना ॥
ददौ तस्मै स्रजं देव्यास्सादरं प्रणिपत्य तम् । तामाधायात्मनो मूर्ध्नि स्रंजरजं स मुनि-
सत्तमः ॥ त्रैलोक्याधिपतिं देवं संमुखेऽथ शचीपतिम् । दृष्ट्वैव शक्रं दुर्वासाः कृपा-
ळुर्मुनिसत्तमः ॥ देव्याः सनंस्रजं स्वशिरसस्सुगन्धोन्मत्तषट्पदाम् । आदाय हस्ताच्छ-
क्राय चिक्षेपोन्मत्त॒वन्मुनिः ॥ सा गृहीता तु शक्रेण चक्षुषोर्नार्पिता पुरा । शिरसा
न धृता भक्तघात्या नाघाघ्राता परदृष्टितः ॥ सावज्ञमेकहस्तेन स्रगैरावतमूर्धनि ।
न्यस्ता रराज कैलासशिखरे जाह्नवी यथा ॥' इत्यादिना । हे अन्यं परकीयं वेदि
तुं शीलं यस्यास्सा अन्यवेदिनी, सा न
 
2-4
 
भवतीत्यनन्यवेदिनी तस्यास्सम्बुद्धिः ।
 
7
 
1.

 
[^१]
महालक्ष्मीमीं क्षमापयति ।
 
C