2023-06-05 16:40:46 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सव्याख्याने
सर्व लोकशरण्यस्य भगवतस्सरसिज़ेक्षणस्य वक्षोगतामालक्षयन् सर्वतो
निर्वृतोऽस्मि ।
अज्ञानाद तिलालनादपि च ते मातर्मया माद्यता
2
निर्माल्ये परदैवतस्य चलितं यत्किञ्चिदुच्छृङ्खलम् ।
तत्क्षन्त 'व्यमनन्यवेदिनि चिरापन्ने प्रपन्ने मयी-
त्याख्यान्तं मघवन्तमादिजननी दृष्ट्या दयामास सा ॥२७॥
टी
2
7.
."
शत्रभवन मेवाश्रित्य आसेदुषीमित्यस्य सम्प्राप्तामित्यर्थो वाच्य इति बोध्यम् । यामेव
भवतीं त्वामित्यर्थः । महान् यः उरगः सर्पः तस्य फणागतां फणामाश्रितां प्रभां
त्विषमिव समालक्ष्य दृष्ट्वा चकितचकितोऽत्यन्तभीत: अस्मि अभवमित्यर्थ: । 'वर्त-
मानसामीप्ये वर्तमानवद्वा' ( 3-3-131) इति लडिति बोध्यम् ॥ तामिति ॥ तां
भवतीमेव अखिललोकानां शरण्यः संरक्षणधुरीण: तथा भूतस्य भगवतः सरसिजे-
क्षणस्य पुण्डरीकाक्षस्य वृक्षोगतां उर स्थलगतां आलक्षयन् पश्यन् अहं निर्वृतः
सुखितोऽस्मि भवामीत्यर्थः ॥ अज्ञानादिति ॥ अज्ञानात् स्वरूपमाहात्म्यापरि-
ज्ञानात् । अपि च, हे मातः ते तव च अतिलालनात् प्रेमातिशयकारणात् माद्यता
मदभाजेत्यर्थः। मया इन्द्रेण, परदैवतस्य- अम्बिकाया इत्यर्थः । निर्माल्ये धृतमाला-
विषये उच्छृङ्खलं निनिरोध अमर्याद यथा तथेति यावत् । किञ्चिदीषत् यच्चरितं
यदप चरितमित्यर्थः । अपचारप्रकारश्च देवीभागवते 'दुर्वासाश्शङ्करस्यांश:
चचार पृथिवीमिमाम् । स ददर्श स्रजं - दिव्यां देव्या विद्याधरीकरे । तां ययाचे
सृज- देव्या विद्याधरवधूं मुनिः । याचिता मुनिना गीता मालां विद्याधराङ्गना ॥
ददौ तस्मै स्रजं देव्यास्सादरं प्रणिपत्य तम् । तामाधायात्मनो मूर्ध्नि स्रंज स मुनि-
सत्तमः ॥ त्रैलोक्याधिपतिं देवं संमुखेऽथ शचीपतिम् । दृष्ट्व शक्रं दुर्वासाः कृपा-
ळुर्मुनिसत्तमः ॥ देव्याः सनं स्वशिरसस्सुगन्धोन्मत्तषट्पदाम् । आदाय हस्ताच्छ-
क्राय चिक्षेपोन्मत्त॒वन्मुनिः ॥ सा गृहीता तु शक्रेण चक्षुषोनर्पिता पुरा । शिरसा
न धृता भक्तघा नाघाता परदृष्टितः ॥ सावज्ञमेकहस्तेन लगैरावतमूर्धनि ।
न्यस्ता रराज कैलासशिखरे जाह्नवी यथा ॥ इत्यादिना । हे अन्य परकीय वेदित
शीलं यस्यास्सा अन्यवेदिनी, सा न
2-4
भवतीत्यनन्यवेदिनी तस्यास्सम्बुद्धिः ।
7
1. महालक्ष्मी क्षमापयति ।
C
★