This page has been fully proofread twice.

कृतो नीहार इव भानुमान् निदाघान्त इव चन्द्रमाः नानन्दयामास नयनानि मादृशाम् । अधुना तु
--
 
या त्वेषा [^१]तुलसीति वक्षसि हरेर्या कापि वन्यौषधि-
र्यश्चासौ तिलकालको बहुमतः श्रीवत्स इत्याख्यया ।
हन्तासीत्तदपि द्वयं शमवतामालम्बनं ध्यायतां
चारूणामपि चारु चारुचरणन्यासेन पद्माक्षि ते ॥ २६ ॥
 
अपि च । यामेव भवतीमियन्तं कालमासेदुषीमरातिभवनानि मणिप्रभामिव महोरगफणागतामालक्ष्य चकितोऽस्मि, तामेव
 
[commentary]
 
ग्रहतत्परा तस्याः सम्बुद्धिः भगवति जगज्जननि जगन्मातः भवत्या विनाकृतः त्वया विरहितः वियुक्तः परमः पुमान् नारायणोऽपीति तात्पर्यार्थः । नीहारः हिमम् । 'अवश्यायस्तु नीहारः' इत्यमरः । अस्मिन् भानुमान् सूर्य इव निदाघान्ते वर्षाकालप्रारम्भे चन्द्रमा इव मादृशां नयनानि नानन्दयामास नाह्लादयामासेत्यर्थः । तत्सान्निध्यमन्तरा दर्शनीयोऽपि अदर्शनीयो भवतीति भावः ॥ येति ॥ हरेर्नारायणस्य वक्षसि उरःस्थले । 'उरो वत्सञ्च वक्षश्च' इत्यमरः । यैषा तुलसीत्याख्या नामधेयेन । 'आख्याऽऽह्वे अभिधानञ्च' इत्यमरः । या कापि वन्यौषधिस्तु 'वनोत्पन्नौषधिविशेषः वर्तते वनमालारूपेणेति भावः । श्रीवत्स इत्याख्यया बहुमतस्सम्मतः यश्च तिलकालकः रोमावर्तः । वर्तत इति शेषः । लाञ्छनरूपेणेति भावः । ध्यायतां ध्यानं कुर्वतां शमवतां शान्तान्तर्मुखानामित्यर्थः । आलम्बनं ध्यानास्पदं तद्द्वयमपि तुलसीश्रीवत्सोभयमित्यर्थः । हे पद्माक्षि श्रीः ते तव चारुणी सुन्दरे ये चरणे पदे । 'पदङ्घ्रिश्चरणोऽस्त्रियाम्' इत्यमरः । तयोः, न्यासेन विन्यासेन चारूणां सुन्दराणां मध्ये चारु सुन्दरमित्यर्थः । 'सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्' इत्यमरः । आसीत् अभूत् । हन्तेति
हर्षे ॥ यामिति ॥ हे जननि इयन्तं कालं एतावति काल इत्यर्थ । अरातयश्शत्रवः । 'अभियातिपरारातिप्रत्यर्थिपरिपन्थिनः' इत्यमरः । तेषां भवनानि सदनानि तेष्वित्यर्थः । उभयत्र 'कालाध्वनोरत्यन्तसंयोगे' (२.३.५) इति द्वितीया । आसेदुषीं स्थितांमित्यर्थः । अथवा, कर्मणि द्वितीया । एतावन्तं कालं हे मातः
 
[^१] महालक्ष्म्याः चरणन्यासेन तुलसीश्रीवत्साङ्कयोः महिमा जाता ।