This page has been fully proofread once and needs a second look.

पंचमांश्वासः
 
कृतो नीहार इव भानुमान् निदाघान्त इव चन्द्रमाः नानन्दयामास
नयनानि मादृशाम् । अधुना तु
 

--
 
या त्वेषा '[^१]तुलसीति वक्षसि हरेर्या कापि वन्यौषधि-
र्यवा

र्यश्चा
सौ तिलकालको बहुमतः श्रीवत्स इत्याख्यया ।

हन्तासीत्तदपि द्वयं शमवतामालम्बनं ध्यायतां
 

चारूणामपि चारु चारुचरणन्यासेन पद्माक्षि ते ॥ २६ ॥

 
अपि च । यामेव भवतीमियन्तं कालमासेदुषीमरातिभवनानि
मणिप्रभामिव महोरगफणागतामालक्ष्य चकितोऽस्मि, तामेव
 

 
[commentary]
 

 
ग्रह तत्परा तस्याः सम्बुद्धिः भगवति जगज्जननि जगन्मातः भवत्या विनाकृतः
त्वया विरहितः वियुक्तः परम:मः पुमान् नारायणोऽपीति तात्पर्यार्थः । नीहारः
हिमम् । 'अवश्यायस्तु नीहारः' इत्यमरः । अस्मिन् भानुमान् सूर्य इव निदाघान्ते
वर्षाकालप्रारम्भे चन्द्रमा इव मादृशां नयनानि नानन्दयामास नाहाह्लादयामासे-
त्यर्थः । तत्सान्निध्यमन्तरा दर्शनीयोऽपि अदर्शनीयो भवतीति भावः ॥ येति ॥
हरेर्नारायणस्य वक्षसि उर: रःस्थले । 'उरो वत्सञ्च वक्षश्च' इत्यमरः । यैषा
तुलसीत्याख्या नामधेयेन । 'आख्याऽऽह्वे अभिघाधानञ्च' इत्यमरः । या कापि
वन्यौषधिस्तु 'वनोत्पन्नौषधि विशेषः वर्तते वनमालारूपेणेति भावः । श्रीवत्स
इत्याख्यया' बहुमतस्सम्मतः यश्च तिलकालक:कः रोमावर्त:तः । वर्तत इति शेषः ।
लाञ्छनरूपेणेति भावः । ध्यायतां ध्यानं कुर्वतां शमवतां शान्तान्तर्मुखानामि
त्यर्थः । आलम्बनं ध्यानास्पदं तद्द्वयमपि तुलसी श्रीवत्सोभयमित्यर्थ:थः । हे पद्माक्षि
श्री:रीः ते तव चारुणी सुन्दरे ये चरणे पदे । 'पदङ्घ्रिश्चरणोऽस्त्रियाम्' इत्यमरः ।
तयोः, न्यासेन विन्यासेन चारूणां सुन्दराणां मध्ये चारु सुन्दरमित्यर्थः ।
'सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्' इत्यमरः । आसीत् अभूत् । न्तेति

हर्षे ॥ यामिति ॥ हे जननि इयन्तं कालं एतावति काल इत्यर्थ: । अरातय-
श्शत्रवः । "'अभियातिपरारातिप्रत्यर्थिप रिपन्थिनः' इत्यमरः । तेषां भवनानि
सं
दनानि तेष्वित्यर्थः । उभयत्र 'कालाध्वनोरत्यन्तसंयोगे' (2-3-5२.३.५) इति द्वितीया ।
आं
सेदुषीं स्थितांमित्यर्थः । अथवा, कर्मणि द्वितीया । एतावन्तं कालं हे मातः
1.

 
[^१]
महालक्ष्म्याः चरणन्यासेन तुलसीश्रीवत्साङ्कयोः महिमा जाता ।