This page has been fully proofread once and needs a second look.

मूल्यं तत्किल वेश्मनां द्विजमुखे भक्त्यात्र यद्दीयते
वेश्यानां च पणः स एव सवने या दक्षिणा ऋत्विजाम् ।
पद्या सैव विशङ्कटा भवति या पद्यात्र तीर्थाम्भसां
द्वारं तत्र च तद्यदत्र करणद्वारं पिधेयं नृणाम् ॥ ११ ॥
 
[commentary]
 
ते मासोपवासिनः मासमभोजिन इति यावत् । मांसवर्जिनः मांसत्यागिन इति । लतात्मकस्सोमो राजा सूयतेऽस्मिन्निति राजसूयः, तेन इष्टवन्तः राजसूययाजिनः, राजसूयकृत इति यावत् । रणे दुर्मदा वीरा इति । वयमन्नदा इति वयमभयदा इति, वयमित्यस्य अत्रत्यैः सर्वप्रथमाबहुवचनान्तैस्सम्बन्धः । अपदानानि स्वानुष्ठितसच्चरित्राणि 'अपदानं कर्म वृत्तं ' इत्यमरः । शंसद्भिः वदद्भिरित्यर्थः । इतस्ततोऽपि सम्पतद्भिः आगच्छद्भिः । अत एव जातु कदाचिदपि अज्ञातमुखैः अदृष्टमुखैरित्यर्थः । अवनिवासिभिर्जनैः । बलाद्बलात्कारतः विमानेष्वपह्रियमाणेषु स्वीक्रियमाणेषु सत्सु । मन्दिरेषु आक्रम्यमाणेषु सत्सु अधिष्ठीयमानेषु सत्सु । अप्सरसां गणे च आकृष्यमाणे हस्तग्राहं गृहीते सति, कश्चिदपि नगरवासी जनः मन्दिराणि विमानानि मणिभूषणानि कळत्राणि वा ममेदमिति मदीयमिति नाभिमन्यते नाभिमनुते । किञ्च तत्रभवाः चतुष्पाद इति शेषः । अदेवतया देवतात्माभावेन सुधाशना न अमृताशना न । अलाभादेव अप्राप्तेरेव तृणाशना न । परिशेषात्
स्थलजात्युचितयोर्मुख्ययोस्सुधातृणाशनयोरभावेनावशिष्टत्वादेव । पवनाशनाः वाय्वाहाराः । तथापि गावः कामदुधाः कामानां दोग्ध्यः । गजाः पराक्रमिणः । वाजिनोऽश्वाः वातस्येव रंहो वेगो येषां ते
वातरंहसश्चेतीदमपरं लक्षणं चिह्नं सकलपुरविलक्षणं व्यावर्तकम् । इदं लक्षणममरावत्यामेव नान्यत्रेति भावः । ननु वैषयिकानन्दस्य वित्तसाध्यगृहवनितादिसापेक्षत्वाद्वित्ताद्यभावात्तत्रामरावत्यां वैषयिकानन्दो न सम्भवतीति चेदत आह ॥ मूल्यमिति ॥ अत्र कर्मभूमौ द्विजमुखे द्विजानां सत्पात्राणां मुखे । भक्त्या यद्वस्तु दीयते, तत्किल तदेव, तत्र वेश्मनां गृहाणां क्रयद्रव्यम् । अत्र सवने यागे ऋत्विजां विषये या दक्षिणा दीयते सैव तत्र वेश्यानां गणिकानां पणः द्रव्यं च भवति । अत्र भूलोके तीर्थाम्भसां या पद्या वर्तते सैव तत्र गृहप्राप्तौ विशङ्कटा विपुला विस्तृतेति यावत् । पद्या सरणिरित्यर्थः । पिधेयं पिघातुं विषयेभ्यो