2023-08-28 11:25:13 by Bharadwajraki
This page has been fully proofread twice.
अम्लानैर्ववृषुस्सुमैस्सुरभिळैराश्चर्यमेधाघाश्च तां
आरूढां हृदयं हरेरपि सुरैरज्ञातमन्तःपुरम् ॥ २४ ॥
चन्द्रं चन्द्रिकयेव, चण्डकिरणं दीप्त्येव, शक्त्या तथा
नित्याश्लिष्टमनन्ययापि मिळितं देवं तदानीमिव ।
दर्शंदर्शमनिर्वृतां दशशतीमक्ष्णां किरन्पादयो-
रस्तावीत्कमलालयामभिमुखीकर्तुं पुनर्वासवः ॥ २५ ॥
भगवति जगज्जननि भक्तवत्सले परमः पुमानपि भवत्या विना-
[commentary]
श्रीदेवीं अभितः परितः दिव्याः दिवि भवा इत्यर्थः । दुन्दुभयः भेर्यः । 'भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । विनेदुः दध्वनुरित्यर्थः । 'नद शब्दे' इति धातोः 'अत एकहल्मध्येऽनादेशादेर्लिटि' (६.४.१२०) इति सूत्रेणेत्वमभ्यासलोपश्च । किन्नराः देवयोनिविशेषाः स्निग्धं मेदुरं यथा मनोहरं यथा तथा जगुः गानं चक्रुरित्यर्थः । तापसाः तपस्विनः परदेवतां जानन्तः विदन्तस्सन्तः जय जयेत्यस्ताविषुः स्तुतिं चक्रुरित्यर्थः । आश्चर्यकराश्च ते मेघाश्चेति कर्मधारयः, विस्मयकरमेघा इत्यर्थः ।
अम्लानैः प्लोषरहितैः सुरभिळैः सुगन्धिभिरित्यर्थः । सुमैः पुष्पैः । 'प्रसूनं कुसुमं सुमम्' इत्यमरः । ववृषुः वृष्टिञ्चक्रुरित्यर्थः । तथा चोक्तं श्रीभागवते 'शङ्खतूर्यमृदङ्गानां वादित्राणां पृथक् स्वनम् । देवानुगानां स्वस्त्रीणां नृत्यतां गायतामभूत् । ब्रह्मरुद्राङ्गिरोमुख्यास्सर्वे विश्वसृजो विभुम् । ईडिरे विविधैर्मन्त्रैः तल्लिङ्गैः पुष्पवर्षिणः' । इति ॥ चन्द्रमिति । चन्द्रं चन्द्रिकयेव ज्योत्स्नयेव । 'चन्द्रिका
कौमुदी ज्योत्स्ना' इत्यमरः । चण्डकिरणं तिग्मांशुं दीप्त्येव प्रभयेव । 'भाश्छविद्युतिदीप्तयः' इत्यमरः । अनन्यया स्वाभिन्नया तया शक्त्या, उभयोरपि मूलप्रकृतित्वादिति भावः । नित्यमनवरतमाश्लिष्टं आलिङ्गितमपि । 'नित्यानवरताजस्रम्' इत्यमरः । तदानीं तत्काल इव मिलितं श्लिष्टं देवं नारायणं वासवो देवेन्द्रः दर्शंदर्शं दृष्ट्वा दृष्ट्वापि अनिर्वृतां तृप्तिमप्राप्तामित्यर्थः, आसेचनकत्वात्तस्येति भावः । अक्ष्णां नेत्राणां दशशतीं सहस्रमित्यर्थः । पादयोः किरन् प्रक्षिपन् सन् कमलालयां महालक्ष्मीं पुनरभिमुखीकर्तुं स्वस्मिन् प्रसादाभिमुखीं कर्तुमित्यर्थः । अस्तावीत् स्तुतिं चकारेत्यर्थः । 'ष्टुञ् स्तुतौ ' इति धातोर्लुङि 'सिचि वृद्धिः परस्मैपदेषु' (७.२.१) इति वृद्धिः ॥ भगवतीति ॥ भक्तवत्सला अस्मदादिसेवकानु-