2023-06-05 16:40:46 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सव्याख्याने
अम्लानैर्ववृषुस्सुमैस्सुरभिळैराश्चर्यमेघाश्च तां
आरूढां हृदयं हरेरपि सुरैरज्ञातमन्तःपुरम् ॥ २४ ॥
चन्द्रं चन्द्रियेव, 'चण्ड किरणं दीप्त्येव, शक्त्या तथा
नित्याश्लिष्टमनन्ययापि मिळितं देवं तदानीमिव ।
दर्शदर्शमनिर्वृतां दशशतीमक्ष्णां किरन्पादयो-
रस्तावीत्कमलालयामभिमुखीकर्तुं पुनर्वासवः ॥ २५ ॥
भगवति जगज्जननि भक्तवत्सले परमः पुमानपि भवत्या विना-
4
३५४
श्रीदेवीं अभितः परितः दिव्याः दिवि भवा इत्यर्थः । दुन्दुभयः मेर्य: । 'भेरी
स्त्री दुन्दुभिः पुमान्' इत्यमरः । विनेदुः दध्वनुरित्यर्थ: । 'नद शब्दे' इति
धातोः 'अत एकहल्मध्येऽनादेशादेर्लिटि' (6-4-120) इति सूत्रेणेत्वमभ्यासलोपश्च।
किन्नराः देवयोनिविशेषाः स्निग्धं मेदुरं यथा मनोहरं यथा तथा जगुः गानं चक्रुरि
त्यर्थः । तापसाः तपस्विनः परदेवतां जानन्तः विदन्तस्सन्तः जय जयेत्यस्ता विषुः
स्तुतिं चक्र रित्यर्थ: । आश्चर्यकराश्च ते मेघाश्चेति कर्मधारयः, विस्मयकरमेघा इत्यर्थः ।
अम्लानैः प्लोषरहितैः सुरभिळैः सुगन्धिभिरित्यर्थः । सुमैः पुष्पैः । 'प्रसून कुसुमं
सुमम्' इत्यमरः । ववृषुः वृष्टिञ्चक्रुरित्यर्थः । तथा चोक्तं श्रीभागवते 'शहतूर्य-
मृदङ्गानां वादित्राणां पृथक् स्वनम् । देवानुगानां स्वस्त्रीणां नृत्यतां गायतामभूत् ।
ब्रह्मरुद्राङ्गिरोमुख्यास्सर्वे विश्वसृजो विभुम् । ईडिरे विविधैर्मन्त्रैः तल्लिङ्गैः पुष्प-
वर्षिण: । इति ॥ चन्द्रमिति । चन्द्रं चन्द्रिकयेव ज्योत्स्नयेव । 'चन्द्रिका
कौमुदी ज्योत्स्ना' इत्यमरः । चण्डकिरणं तिग्मांशुं दीप्त्येव प्रभयेव । 'भाश्छ-
विद्युतिदीप्तयः' इत्यमरः । अनन्यया स्वाभिन्नया तया शक्त्या, उभयोरपि मूल-
प्रकृतित्वादिति भावः । नित्यमनवरतमाष्टं आलिङ्गितमपि । 'नित्यानवरताजस्रम्'
इत्यमरः । तदांनीं तत्काल इव मिलितं श्लिष्ट देव नारायणं वासवो देवेन्द्रः दर्श-
दर्श दृष्ट्वा दृष्ट्वापि अनिर्वृतां तृप्तिमप्राप्तामित्यर्थः, आसेचनकत्वात्तस्येति भावः ।
अक्ष्णां नेत्राणां दशशतीं सहस्रमित्यर्थः । पादयोः किरन् प्रक्षिपन् सन् कम-
लालयां महालक्ष्मी पुनरभिमुखीकर्तुं स्वस्मिन् प्रसादाभिमुखीं कर्तुमित्यर्थः ।
अस्तावीत् स्तुतिं चकारेत्यर्थः । 'टुञ् स्तुतौ ' इति धातोर्लुङि 'सिचि वृद्धिः परस्मै-
पदेषु' (7-2 - 1) इति वृद्धिः ॥ भगवतीति ॥ भक्तवत्सला अस्मदादिसेवकानु-