This page has been fully proofread twice.

ततस्तदिङ्गितवेदिनी मङ्गळदेवता परिवृता विभूतिभिः पश्यत्सु देवासुरेषु, सहस्रादित्यवर्चसा सह कौस्तुभेन सागरादुत्तरन्ती पद्मेन सह चिन्तामणिमपि पाणिना धारयन्ती भुजाद्भुजान्तरं संक्रम्य
भूभुजां कृतशिक्षेव [^१]भुजान्तरमेव भूवल्लभस्य समारुरोह ।
 
दिव्या दुन्दुभयो विनेदुरभितः स्निग्धं जगुः किन्नराः
जानन्तः परदेवतां जय जयेत्यस्ताविषुस्तापसाः ।
 
[commentary]
 
लोट् । इति इत्थं ध्यायंध्यायं ध्यात्वा ध्यात्वेत्यर्थः । हृषीकेशः श्रीनारायणः नवनीतं हय्यङ्गवीनम् । 'नवनीतम् नवोद्धृतम् । तत्तु हय्यङ्गवीनं यत्' इत्यमरः । तस्मादपि मृदुनि कोमले । 'कोमलं मृदुलं मृदु' इत्यमरः । निजे स्वीयहृदयमेव भवनं सदनं तस्मिन् वासं स्थितिं उचितं योग्यमिति मेने बुबुध इत्यर्थः । पतिव्रतायास्तस्याः पतिशरणत्वमर्हमिति भावः ॥ तत इति ॥ ततोऽनन्तरं सहस्रसङ्ख्याकाः ये आदित्यास्सूर्याः तेषां वर्चस्तेज इव वर्चो यस्य सः । 'तेजःपुरीषयोवर्चः' इत्यमरः । तथाभूतेन कौस्तुभेन मणिना सह । 'कौस्तुभो मणिः' इत्यमरः । सागरात्समुद्रात् । ल्यब्लोपे कर्मणि पञ्चमी । उत्तरन्ती उद्गच्छन्तीत्यर्थः । पद्मेन कमलेन सह चिन्तामणिं चिन्तामाणिक्यमपि पाणिना निजहस्तेन धारयन्ती धृतवतीत्यर्थः । तस्य भगवतः इङ्गितं अभिप्रायम् । 'इङ्गितं स्यादभिप्राये गमने विषये पुमान्' इति हलायुधः । तस्य वेदिनी विदितवतीत्यर्थः । अत एव विभूतिभिः स्वपरिवारशक्तिभिः परिवृता मङ्गळदेवता रमादेवी । 'रमा मङ्गळदेवता' इत्यमरः । भूभुजां राज्ञां भुजात् एकेषां भुजं विहायेत्यर्थः । भुजान्तरं अन्यं भुजमित्यर्थः । अन्येषां भुजमिति यावत् । चरन्ती सञ्चरन्ती स्वभावचाञ्चल्यादिति भावः । अत एव कृतशिक्षेव विरचिताभ्यासेव भूवल्लभस्य भूमिदयितस्य श्रीहरेः भुजान्तरं वक्षःस्थलमेवेत्यर्थः । 'न ना क्रोडं भुजान्तरम् । उरो वत्सं च वक्षश्च' इत्यमरः । समारुरोह प्रविवेशेत्यर्थः । तथा चोक्तं श्रीभागवते -- 'तस्थौ निधाय निकटे तदुरः स्वधाम सव्रीडहासविकसन्नयनेन याता । तस्याश्श्रियस्त्रिजगतो जनको जनन्या वक्षोनिवासमकरोत्परमं विभूतेः ॥' इति । दिव्या इति ॥ सुरा इन्द्रादयः तैरप्यज्ञातमविदितं हरेर्नारायणस्य हृदयमेव अन्तःपुरं, 'स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम्' इत्यमरः । आरूढां प्रविष्टां तां
 
[^१] अन्यो भुजः = भुजान्तरम्, भुजयोरन्तरं मध्यं वक्षःस्थलमिति श्लेषः ।