2023-06-05 16:40:45 by ambuda-bot
This page has not been fully proofread.
पञ्चमाश्वांसः
३५३
ततस्तदिङ्गितवेदिनी मङ्गळदेवता
परिवृता
परिवृता विभूतिभिः
पश्यत्सु देवासुरेषु, सहस्रादित्यवर्चसा सह कौस्तुभेन सागरादुत्तरन्ती
पद्मेन सह चिन्तामणिमपि पाणिना धारयन्ती भुजाभुजान्तरं संक्रम्य
भ्रूभुजां कृतशिक्षेव 'भुजान्तरमेव भूवल्लभस्य समारोह ।
दिव्या दुन्दुभयो विनेदुरभितः स्निग्धं जगुः किन्नराः
जानन्तः परदेवतां जय जयेत्यस्ता विषुस्तापसाः
लोट् । इति इत्थं घ्यायध्यायं ध्यात्वा ध्यात्वेत्यर्थः । हृषीकेश: श्रीनारायणः नवनीत
हृय्यङ्गवीनम् । 'नवनीतम् नवोद्धृतम् । तत्तु हय्यङ्गवीनं यत्' इत्यमरः । तस्मा-
दपि मृदुनि. कोमले । 'कोमलं मृदुलं मृदु' इत्यमरः । निजे स्वीयहृदयमेव
भवन सदनं तस्मिन् वासं स्थिति उचितं योग्यमिति मेने बुबुध इत्यर्थः ।
पतिव्रतांयास्तस्याः पतिशरणत्वमर्ह मिति भावः ॥ तत इति ॥ ततोऽनन्तरं
सहस्रसङ्ख्याकाः ये आदित्यास्सूर्याः तेषां वर्चस्तेज इव वर्चो यस्य सः । 'तेज:-
पुरीषयोवर्च: इत्यमरः । तथाभूतेन कौस्तुभेन मणिना सह । 'कौस्तुभो मणि: '
इत्यमरः । सागरात्समुद्रात् । स्यब्लोपे कर्मणि पञ्चमी । उत्तरन्ती उद्गच्छन्ती-
त्यर्थः । पद्मेन कमलेन सह चिन्तामणि चिन्तामाणिक्यमपि पाणिना निजह -
स्तेन धारयन्ती धृतवतीत्यर्थः । तस्य भगवतः इङ्गितं अभिप्रायम् । 'इङ्गितं
स्यादभिप्राये गमने विषये पुमान्' इति हलायुधः । तस्य वेदिनी विदितवती-
त्यर्थः । अत एव विभूतिभिः स्वपरिवारशक्तिभिः परिवृता मङ्गळदेवता रमादेवी ।
'रमा मङ्गळदेवता' इत्यमरः । भूभुजां राज्ञां भुजात् एकेषां भुजं विहायेत्यर्थः ।
भुंजान्तरं अन्य भुजमित्यर्थः । अन्येषां भुजमिति यावत् । चरन्ती सञ्चरन्ती
स्वभावचाञ्चल्यादिति भावः । अत एव कृतशिक्षेत्र विरचिताभ्यासेव भूवल्लभस्य
भूमिदयितस्य श्रीहरेः भुज/न्तरं वक्षःस्थलमेवेत्यर्थः । 'न ना कोडं भुजान्तरम् । उरो
वसं च वक्षश्च' इत्यमरः । समारोह प्रविवेशेत्यर्थः । तथा चोक्तं श्रीभाग-
वते – 'तस्थौ निधाय निकटे तदुरः स्वधाम सन्रीडहास विकसन्नयनेन याता ।
तस्यात्रिश्रयस्त्रिजगतो जनको जनन्या वक्षोनिवासमकरोत्परमं विभूतेः ॥" इति ।
दिव्या इति ॥ सुरा इन्द्रादयः तैरप्यज्ञातम विदित हरेर्नारायणस्य हृदयमेव अन्त:-
पुरं, "स्त्र्यगारं भूभुजामन्तः पुरं स्यादवरोधनम्' इत्यमरः । आरूढां प्रविष्टां तां
1. अन्यो भुजः = भुंजान्तरम्, भुजयोरन्तरं मध्यं वक्षःस्थलमिति श्लेषः ।
N - 46
?