2023-08-28 10:58:01 by Bharadwajraki
This page has been fully proofread twice.
पद्मे निवेश्य परिगृह्य च पद्ममेव
या पद्मरा[^१]गमखिलं स्वमुदाजहार ।
तस्याः श्रियस्समुचितानि हि तन्मयानि
ताटङ्ककङ्कणमुखानि विभूषणानि ॥ २२ ॥
विहारोऽप्येतस्या विकसति सरोजे चरणयोः
प्रसूते लौहित्ययं यदि चरतु सा कुत्र सुमुखी ।
इति ध्यायंध्यायं मृदुनि नवनीतादपि निजे
हृषीकेशो मेने हृदयभवने वासमुचितम् ॥ २३ ॥
[commentary]
याम् । वार्तासम्भाव्ययोः किल' इत्यमरः । सर्वषां वक्त्रादिकमलानां ध्याने किं वक्तव्यमिति भावः ॥ पद्म इति ॥ या लक्ष्मीः पद्मे कमले स्वयमिति शेषः । निवेश्य उषित्वेति यावत् । पद्ममं कमलमेव परिगृह्य च, हस्ते धृत्वा चेत्यर्थः । अखिलं समस्तं, पद्मेषु, रागोऽनुरागः । 'रागोऽनुरागे मात्सर्ये लाक्षादौ रक्तिमत्विषोः' इति भास्करः । तं उदाजहार जहारेत्यर्थः । अथवा, उपपादयामासेत्यर्थः । 'उपोद्घात उदाहारः' इत्यमरः । अत्र या लक्ष्मीः अखिलं पद्मरागं शोणरत्नं ; 'शोणरत्नं रोहितकं पद्मरागोऽथ मौक्तिकम्' इत्यमरः । स्वं स्वकीयमित्यर्थः । 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने' इत्यमरः । उदाजहार आचख्याविति च व्यज्यते । तस्याः श्रियो देव्याः ताटङ्ककङ्कणमुखानि कुण्डलवलयाङ्गुळीयकप्रभृतीनीत्यर्थः । विभूषणानि आभरणानि तन्मयानि हि पद्मरागमाणिक्यप्रचुराण्येवेत्यर्थः । 'हि हेताववधारणे' इत्यमरः । समुचितानि योग्यानि । 'समुचितो ज्ञातेऽभ्यस्ते समञ्जसे' इति नानार्थमाला ॥ विहार इति ॥ विकसितं उन्मीलितं यत्सरजितं कमलं तस्मिन् विहारः विहरणमपि संचारोऽपीत्यर्थः । एतस्याः श्रीदेव्याश्चरणयोः लौहित्यमारुण्यं प्रसूते यदि जनयति चेदित्यर्थः । कमलापेक्षया देवीचरणयोः मृदुत्वादिति भावः । सा सुमुखी लक्ष्मीः कुत्र कस्मिन् देशे चरतु विहरेदित्यर्थः । चरतेस्सम्भावनायां
[^१] कुण्डल, वलय, अङ्गुलीयकाद्याभरणानि पद्मरागमयान्येव मङ्गलानि इति महालक्ष्मीभूषणवर्णनात् प्रतीयते ॥
या पद्मरा[^१]गमखिलं स्वमुदाजहार ।
तस्याः श्रियस्समुचितानि हि तन्मयानि
ताटङ्ककङ्कणमुखानि विभूषणानि ॥ २२ ॥
विहारोऽप्येतस्या विकसति सरोजे चरणयोः
प्रसूते लौहित्
इति ध्यायंध्यायं मृदुनि नवनीतादपि निजे
हृषीकेशो मेने हृदयभवने वासमुचितम् ॥ २३ ॥
[commentary]
याम् । वार्तासम्भाव्ययोः किल' इत्यमरः । सर्वषां वक्त्रादिकमलानां ध्याने किं वक्तव्यमिति भावः ॥ पद्म इति ॥ या लक्ष्मीः पद्मे कमले स्वयमिति शेषः । निवेश्य उषित्वेति यावत् । पद्
[^१] कुण्डल, वलय, अङ्गुलीयकाद्याभरणानि पद्मरागमयान्येव मङ्गलानि इति महालक्ष्मीभूषणवर्णनात् प्रतीयते ॥