This page has been fully proofread once and needs a second look.

३५२
 
नीलकण्ठविजये सव्याख्याने
पद्म
पद्मे निवेश्य परिगृह्य च पद्ममेव
या पझ

या पद्म
रा [^१]गमखिलं स्वमुदाजहार ।

तस्याः श्रियस्समुचितानि हि तन्मयानि

ताटङ्ककङ्कणमुखानि विभूषणानि ॥ २२ ॥

 
विहारोऽप्येतस्या विकसति सरोजे चरणयोः

प्रसूते लौहित्य यदि चरतु सा कुत्र सुमुखी ।

इति ध्यायंध्यायं मृदुनि नवनीतादपि निजे

हृषीकेशो मेने हृदयभवने वासमुचितम् ॥ २३ ॥
 

 
[commentary]
 
याम् । वार्तासम्भाव्ययोः किल' इत्यमरः । सर्वषां वक्त्रादिकमलानां ध्याने किं
वक्तव्यमिति भावः ॥ पद्म इति ॥ या लक्ष्मी:मीः पद्मे कमले स्वयमिति शेषः ।
निवेश्यं उषित्वेति यावत् । पद्म कमलमेव परिगृह्य च, हस्ते धृत्वा चेत्यर्थः ।
अखिल समस्तलं समस्तं, पद्मेषु, रागोऽनुरागः । 'रागोऽनुरागे मात्सर्ये लाक्षादौ रक्ति-
मत्विषोः' इति भास्करः । तं उदाजहार जहारेत्यर्थः । अथवा, उपपाद-
यामासेत्यर्थः । 'उपोद्धाघात उदाहार:रः' इत्यमरः । अत्र या लक्ष्मी:मीः अखिलं पद्म-
रागं शोणरत्नं ; 'शोणरलंत्नं रोहितकं पद्मरागोऽथ मौक्तिकम्' इत्यमरः । स्वं स्व-
कीयमित्यर्थः ।' 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां ने' इत्यमरः ।
उदाजहार आचख्याविति च व्यज्यते । तस्याः श्रियो देव्याः ताटङ्ककङ्कणमुखानि
कुण्डलवलया ङ्गुळीयकप्रभृतीनीत्यर्थः । विभूषणानि आरणानि तन्मयानि हि
पद्मरागमाणिक्यप्रचुराण्येवेत्यर्थः । ' हि हेताववधारणे' इत्यमरः । समुचितानि
योग्यानि । 'समुचितो ज्ञांञातेऽभ्यस्ते समञ्जसे' इति नानार्थमाला ॥ विहार
इति ॥ विकसितं उन्मीलितं यत्सरंजितं कमलं तस्मिन् विहारः विहरणमपि
संचारोऽपीत्यर्थः । एतस्याः श्रीदेव्याश्चरणयोः लौहित्यमारुण्यं प्रसूते यदि
जनयति चेदित्यर्थः । कमलापेक्षया देवीचरणयोः मृदुत्वादिति भावः ।
सा सुमुखी लक्ष्मीः कुत्र कस्मिन् देशे चरतु विहरेदित्यर्थः । चरतेस्सम्भावनायां
 
.
 
-
 
1.

 
[^१]
कुण्डल, वलय, अङ्गुलीयकाद्याभरणानि पद्मरागमयान्येव मङ्गलानि इति महा-
लक्ष्मीभूषणवर्णनात् प्रतीयते ॥