2023-08-28 10:47:01 by Bharadwajraki
This page has been fully proofread twice.
रनवशेषमेव कुचकुम्भयोः कोपारुणाः कटाक्षा इव पुण्डरीकाक्षस्य कुंकुमपत्रभङ्गा ददृशिरे ।
वक्त्राक्षिपाणिचरणासनधारणानि
पद्मानि यानि षडिमानि हरिप्रियायाः ।
उद्बुद्धमेकमपि तेषु किल, व्यनक्ति
संसारमोहरजनीमणुमा[^१]त्रशेषाम् ॥ २१ ॥
[commentary]
लक्षणम्' इत्यमरः । कल्पितानीव बद्धानीव विधात्रेति शेषः । प्रचकाशिरे बभुरित्यर्थः । 'काशृ दीप्तौ' इति धातोः 'लिटि धातोरनभ्यासस्य (६.१.८) इति द्वित्वे 'कुहोश्चुः' (७.४.६२) इत्यभ्यासककारस्य चकारः, हलादिश्शेषः ॥ आजानेति ॥ जनिमारभ्य आजानं सरळं मृदुळमित्यर्थः । अस्या महालक्ष्म्याः हृदयं निरवशेषं निश्शेषमेव । कृत्स्नमेवेति यावत् । आवृण्वतोः व्याप्नुवतोरित्यर्थः । कठिनयोरिति शेषः । कुचकुम्भयोः कोपः रोषः तेन अरुणा रक्ताः पुण्डरीकाक्षस्य श्रीहरेः कटाक्षाः
अपाङ्गदर्शनानीव । 'अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने' इत्यमरः । कुङ्कुमं
सुवासिनीभिर्निटिलदेशे धार्यमाणः काश्मीरजन्माख्यचूर्णविशेषः । तेन विरचितानि पत्राणीति शाकपार्थिवादित्वान्मध्यमपदलोपी समासः । तेषां मकरिकादिपत्राणां भङ्गाः शकलानि । 'अथ कुङ्कुमम् । काश्मीरजन्माग्निशिखं वरं बाह्लीकपीतने ।' 'अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे' इति च अमरः । 'भङ्गः खण्डे पराजये' इति भास्करश्च । ददृशिरे दृष्टा बभूवुरित्यर्थः ॥ वक्त्रेति ॥ हरिप्रिया लक्ष्मीः । 'कमला श्रीर्हरिप्रिया' इत्यमरः । तस्याः षट् षट्सङ्ख्याकानि इमानि परिदृश्यमानानि प्रसिद्धानीति वाऽर्थः । वक्त्राक्षिपाणिचरणासनरूपाणि धारणं हस्तधृतकमलं चेति यानि पद्मानि वर्तन्त इति शेषः । 'वा पुंसि पद्मं नळिनम्' इत्यमरः । तेषु षट्कमलेषु एकमपि कमलं उद्बुद्धं सम्यग्विदितं ध्यातमिति यावत् । 'बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते' इत्यमरः । संसारः जननमरणप्रवाहः स च मोहः अहमाद्यभिमानः स च संसारमोहावेव रजनी तमी । 'रजनी
यामिनी तमी' इत्यमरः । तां अणुमात्रेण शिष्यत इत्यणुमालशेषः अवशिष्टलेशांशेत्यर्थः । तथाभूतां व्यनक्ति किल करोति खल्वित्यर्थः । अत्र किलेति वार्ता-
[^१] एककमलध्यानमेवाविद्यानिवर्तकम्, किमु षट्कमलध्यानं महालक्ष्म्याः ।