This page has not been fully proofread.

पञ्चमाश्वासः
 
३५१
 
रनवशेषमेव कुचकुम्भयोः कोपारुणाः कटाक्षा इव पुण्डरीकाक्षस्य कुंकुम -
पत्रभङ्गा दहशिरे ।
 
वक्ला क्षिपाणिचरणासनधारणानि
 
पद्मानि यानि षडिमानि हरिप्रियायाः ।
उद्बुद्धमेकमपि तेषु किल, व्यनक्ति
संसारमोहरजनीमणु मा 'त्रशेषाम् ॥ २१ ॥
 
लक्षणम्' इत्यमरः । कल्पितानीव बद्धानीव विधात्रेति शेषः । प्रचकाशिरे बभुरि-
त्यर्थः । 'काट दीप्तौ' इति धातो: 'लिटि घातोरनभ्यासस्य (6-1-8) इति द्वित्वे
'कुहोचु:' (7-4-62) इत्यभ्यासककारस्य चकारः, हलादिश्शेषः ॥ आजानेति ॥
ज़निमारभ्य आजानं सरळ मृदुळमित्यर्थः । अस्या महालक्ष्म्याः हृदयं निरवशेषं
निश्शेषमेव । कृत्स्नमेवेति यावत् । आवृण्वतोः व्याप्नुवतो रित्यर्थ: । कठिनयोरिति
शेषः । कुंचकुम्भयो: कोप: रोष: तेन अरुणा रक्ताः पुण्डरीकाक्षस्य श्रीहरे: कटाक्षाः
अपाङ्गदर्शनानीव । 'अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने' इत्यमरः । कुकुमं
सुवासिनीभिर्निटिलदेशे धार्यमाण: काश्मीरजन्माख्यचूर्णविशेषः । तेन विरचितानि
पत्राणीति शाकपार्थिवादित्वान्मध्यमपदलोपी समासः । तेषां मकरिकादिप-

त्राणां भङ्गाः शकलानि । 'अथ कुकुमम् । काश्मीरजन्माग्निशिखं वरं बाह्रीकपी-
तने । 'अनुबोध: पत्रलेखा पत्राङ्गुलिरिमे समे' इति च अमरः। 'भङ्गः खण्डे
पराजये' इति भास्करच । दहशिरे दृष्टा बभूवुरित्यर्थः ॥ वक्त्रेति ॥ हरिप्रिया
. लक्ष्मी: । 'कमला श्रीर्हरिप्रिया' इत्यमरः । तस्याः षट् षट्सङ्ख्याकानि इमानि
परिदृश्यमानानि प्रसिद्धानीति वाऽर्थः । वक्त्राक्षिपाणिचरणासनरूपाणि धारणं हस्तधृत-
कमलं चेति यानि पद्मानि वर्तन्त इति शेषः । 'वा पुंसि पद्म नळिनम्' इत्यमरः ।
तेषु षट्कमलेषु एकमपि कमलं उद्बुद्धं सम्यग्विदित ध्यातमिति यावत् । 'बुद्धं
बुघितं मनित विदितं प्रतिपन्नमवसितावगते' इत्यमरः । संसार : जननमरण-
प्रवाहः स च मोहः अहमाद्यभिमानः स च संसारमोहावेव रजनी तमी । 'रजनी
यामिनी तमी' इत्यमरः । तां अणुमात्रेण शिष्यत इत्यणुमालशेष: अवशिष्टले-
शांशेत्यर्थः । तथाभूतां व्यनक्ति किल करोति खल्त्यिर्थः । अत्र किलेति वार्ता-
1. एककमलध्यानमेवाविद्यानिवर्तकम्, किमु षट्कमलध्यानं महालक्ष्म्याः ।