2023-08-28 09:50:08 by Bharadwajraki
This page has been fully proofread twice.
कस्यां श्रुतावधिगता मणिकर्णिकेति
मूढात्मनां प्रलपतां मुखमुद्रणाय ।
आसीदशेषजनताभवतापहन्त्री
मातुः श्रुतावधिगता मणिकर्णिकैव ॥ २० ॥
पद्महस्तायाश्च तस्याः पाणिकमलयोर्विवेकाय कल्पितानि चिह्नतयेव कङ्कणानि प्रचकाशिरे । आजानसरळमस्या हृदयमावृण्वतो-
[commentary]
सन् परिणेम इव परिणतो बभूव इत्यर्थः । विधृतनासाभरणेति भावः ॥ कस्यामिति ॥ मणिकर्णिका मणिमयकर्णभूषणमित्यर्थः । कस्यां श्रुतौ कस्मिन् कर्णे । 'कर्णिका ताळपत्रं स्यात्कुण्डलं कर्णवेष्टनम्' 'कर्णशब्दग्रहौ श्रोत्रम्', इति च अमरः । मणिकर्णिका मणिकर्णीतीर्थम् । 'मणिकर्णिकासमं तीर्थं नास्ति ब्रह्माण्डगोळके' इति काशीरहस्यवचनात् । कस्यां श्रुतौ कस्मिन् वेद इति च व्यज्यते । 'श्रुतिः स्त्री वेद आम्नायः' इति कोशाभिधानात् । अधिगता विज्ञातेत्यर्थः । इति इत्थं,
प्रलपतामनर्थकवचांसि कथयतामित्यर्थः । 'प्रलापोऽनर्थकं वचः' इत्यमरः । मूढाः सदसद्विवेकरहिताः आत्मानौ येषां तेषां मुखानि वदनानि तेषां मुद्रणं वाक्स्तम्भनं तस्मा इत्यर्थः । अशेषास्समस्ताः जनताया जनसमूहस्य ये भवे संसारे तापाः आध्यात्मिकाविदैविकाभिौतिकाख्याः तेषामपहन्त्री निहन्त्रीत्यर्थः । 'ग्रामता जनता धूम्या' इत्यमरः । 'भवस्संसाररुद्रयोः' इति भास्करः । मणिकर्णिका मणिमयकर्णभूषेत्यर्थः । पूर्ववत्तीर्थमिति च व्यज्यते । एवकारो भिन्नक्रमः । मातुः अखिललोकजनन्याः श्रुतावेव श्रोत्र एवेत्यर्थः । मातुः त्रिविक्रमावतारे जगन्निर्माणकर्तुर्वासुदेवस्येति च व्यज्यते । श्रुतावेव वेद एवेति च व्यज्यते । आसीत् बभूवेत्यर्थः । 'छन्दाँसि जज्ञिरे तस्मात्, तस्मात्तेऽपानात्त्रयो वेदा अजायन्त', 'अस्य निःश्वसितमेवैतदृग्वेदो यजुर्वेद' इत्यादिश्रुतिभिर्यस्मात्परमपूरुषाद्वेदा जाता इति श्रूयन्ते तादृशपरमपुरुषसम्बन्धिन्यामेव श्रुतावधिगतेत्युत्तरमिति निगूढाशयः ॥ पद्महस्ताया इति ॥ पद्मं हस्ते यस्याः सा तथा भूतायास्तस्या महालक्ष्म्याः कङ्कणानि करभूषणानि । 'साक्षराङ्गुळिमुद्रा सा कङ्कणं करभूषणम्' इत्यमरः । करश्च कमलं चेति द्वन्द्वः तयोः करकमलयोर्विवेकाय अयं हस्त इति, इदं कमलमिति च भेदज्ञानायेत्यर्थः । चिह्नतया लक्षणत्वेन । 'चिह्नं लक्ष्म च