2023-08-28 09:37:07 by Bharadwajraki
This page has been fully proofread twice.
तदासीदाश्चर्यं परममखिलानां दिविषदां
तदुत्तंसीभूतं पुरमथितुरद्यापि मकुटे ॥ १९ ॥
अपिच कमलासनपदप्रदस्य कमलोपमां मीनकेतनजनकस्य मीनसादृश्यमपि [^१]कथयितुमपत्रपन्ते कवयोऽपि तन्नयनस्य । करगतकमलाघ्राणसंयुक्तं तत्रत्यमौक्तिकमेव तस्या नासामणिः परिणेमे ।
[commentary]
'अधस्ताच्चुबुकं गण्डकपोलौ तत्परा हनुः' इत्यमरः । निर्मातुं किल निर्माणं कर्तुमिव इत्यर्थः । हिमरुचेः चन्द्रस्य यदेकं शकलं खण्डम् आदाय गृहीत्वा, इदमस्याः'असममननुरूपं इति मत्वा अत्याक्षीत् विससर्जेत्यर्थः । अखिलानां दिविषदां देवानामाश्चर्यं विस्मयकरं परमं तच्चन्द्रशकलमद्यापि पुरमथितुः परमेश्वरस्य मकुटे शिरसि, उत्तंसीभूतं अवतंसभूतं सद्वर्तते किल । 'पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखर' इत्यमरः ॥ कमलासनेति ॥ कवयः पण्डिताः । 'सङ्ख्यावान् पण्डितः कविः' इत्यमरः । कमलासनपदं ब्रह्मलक्षणपदं प्रददातीति कमलासनपदप्रदम् । यद्वा कमलासनस्य पदप्रदं संरक्षणप्रदं तथाभूतस्य । 'पदं व्यवसितत्राणस्थान-
लक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । ब्रह्मणो मातृत्वात् तस्या इति भावः । मीनकेतनो मदनः । "प्रद्युम्नो मीनकेतनः' इत्यमरः । तज्जनकस्य कामसञ्जीविनीत्वात्तस्या इति भावः । तन्नयनस्य लक्ष्मीनेत्रयुग्मस्येति तात्पर्यार्थः । कमलोपमां पद्मसाम्यं मीनसादृश्यं मत्स्योपमानमपि कथयितुं निगदितुं अपत्रपन्ते लज्जन्ते इत्यर्थः । अत्रेदं बोध्यम् -- कमलमासने पीठादिरूपं यस्य स कमलासनः । 'पीठाद्यमासनम्' इत्यमरः । 'तत्पदप्रदस्यैकत्र मीनात्केतनं भृत्यकृत्यं यस्य सः मीनकेतनः तज्जनकस्येत्येकत्र विग्रहः । एवञ्च यन्नयनावलोकितो ब्रह्मा पीठवत्कमलमधःकृत्य तदुपरि तिष्ठति, एवं यन्नयनावलोकितो मदनः मीनमपि किङ्करीकृत्य जीवति तादृशलक्ष्मीनयनस्य कमलमीनाभ्यां साम्यं कथयितुं पण्डितानां महालज्जेति निगूढाशय इति । 'मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे' इत्यमरः ॥ करेति ॥ करः हस्तः तं गतं यत्कमलं तस्य यदाघ्राणं गन्धग्रहणं तेन संसक्तं संक्रान्तं मौक्तिकं मुक्ताफलं इवकारो भिन्नक्रमः तस्याः श्रीदेव्याः नासामणिः नासिकालङ्कारमणिः
[^१] लोचने, नासामौक्तिकं मणिकर्णिकां च श्लेषविधया ॥
तदुत्तंसीभूतं पुरमथितुरद्यापि मकुटे ॥ १९ ॥
अपिच कमलासनपदप्रदस्य कमलोपमां मीनकेतनजनकस्य मीनसादृश्यमपि [^१]कथयितुमपत्रपन्ते कवयोऽपि तन्नयनस्य । करगतकमलाघ्राणसंयुक्तं तत्रत्यमौक्तिकमेव तस्या नासामणिः परिणेमे ।
[commentary]
'अधस्ताच्चुबुकं गण्डकपोलौ तत्परा हनुः' इत्यमरः । निर्मातुं किल निर्माणं कर्तुमिव इत्यर्थः । हिमरुचेः चन्द्रस्य यदेकं शकलं खण्डम् आदाय गृहीत्वा, इदमस्याः