This page has been fully proofread once and needs a second look.

पञ्चेमावांसः
 
तदासीदाश्चर्यं परमम खिलानां दिविषदां
 

तदुत्तंसीभूतं पुरमथितुरद्यापि मकुटे ॥ १९ ॥
 
३४९
 

 
अपिच कमलासनपदप्रदस्य कमलोपमां मीनकेतनजनकस्य
मीनसादृश्यमपि '[^१]कथयितुमपत्रपन्ते कवयोऽपि तन्नयनस्य । करगत-
कमलाघाघ्राणसंयुक्तं तत्रत्यमौक्तिकमेव तस्या नासामणिः परिणेमे ।
 

 
[commentary]
 
'अधस्ताच्चुबुकं गण्डकपोलौ तत्परा हनुः' इत्यमरः । निर्मातुं किल निर्माणं
कर्तुमिव इत्यर्थः । हिमरुचेः चन्द्रस्य यदेकं शकलं खण्डम् आदाय गृहीत्वा, इदमस्याः
'असममननुरूपं इति मत्वा अत्याक्षीत् विससर्जेत्यर्थः । अखिलानां दिविषदां
देवानामाश्चर्यं विस्मयकरं परमं तच्चन्द्रशकलमद्यापि पुरमथितुः परमेश्वरस्य मकुटे
शिरसि, उत्तंसीभूतं अवतंस भूतं सद्वर्तते किल । 'पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि
शेखर' इत्यमरः ॥ कमलासनेति ॥ कवयः पण्डिताः । 'सङ्ख्यावान् पण्डितः
कवि :
कविः' इत्यमरः । कमलासनपदं ब्रह्मलक्षणपदं प्रददातीति कमलासनपदप्रदम् ।
 
यद्वा कमलासनस्य पदप्रदं संरक्षणप्रदं तथाभूतस्य । 'पदं व्यवसितत्राणस्थान-

लक्ष्माविङ्घ्रिवस्तुषु' इत्यमरः । ब्रह्मणो मातृत्वात् तस्या इति भावः । मीनकेतनो
मदनः । "प्रद्युम्नो मीनकेतनः' इत्यमरः । तज्जनकस्य कामसञ्जीविनीत्वात्तस्या
इति भावः । तन्नयनस्य लक्ष्मीनेत्रयुम्ग्मस्येति तात्पर्यार्थः । कमलोपमां पद्मसाम्यं
मीनसादृश्यं मत्स्योपमानमपि कथयितुं निगदितुं अपत्रपन्ते लज्जन्ते इत्यर्थः ।
अत्रेदेदं बोध्यम् - "- कमलमासने पीठादिरूपं यस्य स कमलासन:नः । 'पीठाद्यमासनम्'
इत्यमरः । 'तत्पदप्रदस्यैकत्र मीनात्केतनं भृत्यकृत्यं यस्य सः मीनकेतनः
तज्जनकस्येत्येकत्र विग्रहः । एवञ्च यन्नयनावलोकितो ब्रह्मा पीठवत्कमलमध: धःकृत्य
तदुपरि तिष्ठति, एवं यन्नयनावलोकितो मदन:नः मीनमपि किङ्करीकृत्य जीवति तादृश-
लक्ष्मीनयनस्य कमलमीनाभ्यां साम्यं कथयितुं पण्डितानां महालज्जेति निगूढाशय
इति 1 -
इति । 'मन्देऽथ केतनं कृत्येंये केतावुप निमन्त्रणे' इत्यमरः ॥ करेति ॥ करः
हस्तः तं गत यत्कमलेतं यत्कमलं तस्य यदाघ्राणं गन्धग्रहणं तेन संसक्तं संक्रान्तं मौक्तिकं
मुक्ताफलं इवकारोंरो भिन्नक्रम:मः तस्याः श्रीदेव्याः नासामणिः नासिकालङ्कारमणिः
 
1.

 
[^१]
लोचने, नासामौक्तिकं मणिकर्णिकां च श्लेषविधया ॥
 
"