This page has been fully proofread twice.

ध्वजस्य, माता चराचराणाम्, महिषी नारायणस्य, समालक्ष्यत सौभाग्यदेवता ।
 
विरहासहेव सततं विहितस्थितिराननेन्दुना सविधे ।
कुवलयवनीव रेजे कुटिला [^१]कचसंहतिस्तस्याः ॥ १८ ॥
कपोलौ निर्मातुं किल शकलमेकं हिमरुचेः
यदादायात्याक्षीदसममिदमस्या इति विधिः ।
 
[commentary]
 
मयी शौर्यस्वरूपेत्यर्थः । राजसु प्रणताशेषसामन्तेषु अधीश्वरेष्वित्यर्थः । 'राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः' इत्यमरः । सम्पन्मयी। शरारुषु घातुकेषु । 'शरारुर्घातुको हिंस्रः' इत्यमरः ॥ साहसं दण्डोपायस्तन्मयीत्यर्थः । 'साहसं तु दमो दण्डः' इत्यमरः । भक्तेषु भक्तिमत्सु कारुण्यमयी कृपारूपेत्यर्थः । 'कारुण्यं करुणा घृणा' इत्यमरः । परिणेतरि विवाहविधिना स्वीकर्तरीत्यर्थः । कामस्य कला शीलं तन्मयीत्यर्थः । जनार्दनस्य श्रीहरेः जयपताकिका जयध्वजरूपेत्यर्थः । 'पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्' इत्यमरः । मकरध्वजस्य मन्मथस्य जीविका जीवनौषधमित्यर्थः । चराचराणां स्थावरजङ्गमानां माता जननी । मूलप्रकृतित्वात् तस्या इति भावः । नारायणस्य वासुदेवस्य, महिषी । 'कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः' इत्यमरः । एवंविधा सौभाग्यदेवता महालक्ष्मीः समालक्ष्यत दृष्टा बभूवेत्यर्थः । तथा चोक्तं देवीभागवते -- 'ततः स्फुरत्सहस्रांशुशीतांशुसदृशप्रभा । महालक्ष्मीस्समुदभूद्विकासिकमलेक्षणा । श्रियाऽवलोकिता देवा
हर्निर्भरमानसाः । मुनिशापविनिर्मुक्ता गोविन्दस्य कृपावशात् । दुर्वासाः प्राह यत् पूर्वं शापान्तं लोकरीतितः । करिष्यत्येव गोविन्दः कुशलानि सुरासुराः ॥' इति । अथ महालक्ष्मीं वर्णयति ॥ विरहासहेति ॥ तस्या महालक्ष्म्याः कुटिला अङ्गुळीयकवत् वक्रतासहिता कचानां शिरोरुहाणां संहतिः समूहः । 'कचः केशश्शिरोरुहः' इत्यमरः । 'स्त्रियां तु संहतिर्बृन्दम्' इति च । विरहः वियोगः तस्यासहा असहमानेव आननेन्दुना मुखचन्द्रेण सह कुवलयवनीव सविधे विहिता विरचिता स्थितिरवस्थानं यया सा तथाभूता, नीलोत्पलवनमिव रेजे प्रचकाशे ॥ कपोलाविति ॥ विधिर्ब्रह्मा तदा तत्काले अस्याः कपोलौ गण्डदेशौ ।
 
[^१] महालक्ष्म्यङ्गवर्णनावसरे -- कचसंहतिं, कुपोलौ चोत्प्रेक्षते ॥