This page has not been fully proofread.

३४८
 
नीलकण्ठविजये सव्याख्याने
 
ध्वजस्य, माता चराचराणाम्, महिषी नारायणस्य, समालक्ष्यत
सौभाग्यदेवता ।
 
·
 
विरहासहेव सततं विहित स्थितिराननेन्दुना सविधे ।
कुवलयवनीव रेजे कुटिला कचसहतिस्तस्याः ॥ १८ ॥
कपोलौ निर्मातुं किल शकलमेक हिमरुचे
यदा दायात्याक्षीदसम मिदमस्या इति विधिः ।
 
7
 
मयी शौर्यस्वरूपेत्यर्थः । राजसु प्रणताशेषसामन्तेषु अधीश्वरे वित्यर्थः । 'राजा तु
प्रणताशेषसामन्तःः स्यादघीश्वरः' इत्यमरः । सम्पन्मयी। शरारुषु घातुकेषु ।
'शरारुर्घातको हिंस्र इत्यमरः ॥ साहसं दण्डोपाय स्तन्मयीत्यर्थः । 'साहसं तु
दमो दण्डः इत्यमरः । भक्तेषु भक्तिमत्सु कारुण्यमयी कृपारूपेत्यर्थः । 'कारुण्य
करुणा घृणा इत्यमरः । परिणेतरि विवाहविधिना स्वीकर्तरीत्यर्थः । कामस्य
कुला शीलं तन्मयीत्यर्थः । जनार्दनस्य श्रीहरे: जयपताकिका जयध्वजरूपेत्यर्थः ।
'पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् इत्यमरः । मकरध्वजस्य मन्मथस्य
जीविका जीवनौषधमित्यर्थः । चराचराणां स्थावरजङ्गमानां माता जननी । मूल-
प्रकृतित्वात् तस्या इति भावः । नारायणस्य वासुदेवस्य, महिषी । 'कृताभिषेका
महिषी भोगिन्योऽन्या नृप स्त्रियः इत्यमरः । एवंविधा सौभाग्यदेवता महालक्ष्मीः
समालक्ष्यत दृष्टा बभूवेत्यर्थः । तथा चोक्तं देवीभागवते – 'ततः स्फुरत्सहस्रांशु -
शीतांशुसदृशप्रभा । महालक्ष्मीस्समुदभूद्विकासिकमलेक्षणा । श्रियाऽवलोकिता देवा
हर्बनिर्भरमानसाः 1 मुनिशा विनिर्मुक्ता गोविन्दस्य कृपावशात् । दुर्वासाः प्राह
यत् पूर्वं शापान्तं लोकरीतितः । करिष्यत्येव गोविन्दः कुशलानि सुरासुराः ॥'
इति ।.. अथ महालक्ष्मीं वर्णयति ॥ विरहांसहेति ॥ तस्या महालक्ष्म्याः कुटिला
अङ्गुळीयकवत् वक्रतासहिता कचाचां शिरोरुहाणां संहतिः समूहः । 'कचः
केशश्शिरोरुहः इत्यमरः । 'स्त्रियां तु संहतिर्वृन्दम्' इति च । विरहः
वियोग: तस्यासहा असहमानेव आननेन्दुना मुखचन्द्रेण सह कुवलयवनीव
सविधे विहिता विरचिता स्थितिरवस्थानं यया सा तथाभूता, नीलोत्पलवनमिव रेजे
मचकाशे ॥ कपोलाविति ॥ विधिर्ब्रह्मा तदा तत्काले अस्याः कसोलौ गण्डदेशौ ।
H
 
4. महालक्ष्म्यञ्जवर्णनावसरे-कच संहतिं, कुपोलौ चोत्प्रेक्षते ॥
 
"
 
M